SearchBrowseAboutContactDonate
Page Preview
Page 1135
Loading...
Download File
Download File
Page Text
________________ पञ्चदशः सर्गः २६१ क्रव्याद्गणः, क्रव्याद्गण एव परीवारः यस्य स क्रव्याद्गणपरीवारः । चितायाः अग्निः इति चिताग्निः । हिन्दी - धूएँ के समान काले रंग का, तथा चर्बी को गन्ध वाला, और अग्नि की लपटों के समान भूरे रंग के बालों वाला, तथा कच्चा मांस खानेवाले राक्षस ही उसके परिजन थे । अर्थात् ये ही उसके साथ चल रहे थे, अत एव वह उस चलती-फिरती चिता की आग के समान लग रहा था, जो घूएँ के कारण धुँधली तथा चर्बी की गन्ध वाली एवं धूएँ के वर्णवाली लपटें ही जिसके केश हों तथा गीध, कुत्ते आदि कच्चा मांस खानेवाले पशु-पक्षी जिसके चारो ओर चल रहे हों ॥ १६ ॥ अपशूलं तमासाद्य लवणं लक्ष्मणानुजः । रोध संमुखीनो हि जयो रन्ध्रप्रहारिणाम् ॥ १७ ॥ लक्ष्मणानुजः शत्रुघ्नोऽपशूलं शूलरहितं तं लवणमासाद्य रुरोध । तथाहि । रन्ध्रप्रहारिणं रन्ध्रप्रहरणशोलानाम् । अपशूलतैवात्र रन्ध्रम् । जयः संमुखीनो हि । संमुखस्य दर्शनो हि । 'यथामुखसंमुखस्य दर्शनः खः' इति खप्रत्ययः । अधिकारलक्षणार्थस्तु दुर्लभ एव ॥ अन्वयः - लक्ष्मणानुजः अपशूलं तम् लवणम् आसाद्य रुरोध, हि रन्ध्रप्रहारिणां जयः सम्मुखीनः भवतीति शेषः । व्याख्या - लक्ष्मणस्य अनुजः = कनिष्ठभ्राता, इति लक्ष्मणानुजः = शत्रुघ्नः अपगतं शूलं = मुसलम्=आयुधमित्यर्थः । यस्य स तम् अपगतशूलं, गृहस्थितायुधमित्यर्थः । “अस्त्रीशूलं रुगायुधम्” इत्यमरः । तं लवणं = लवणासुरम् आसाद्य = प्राप्य रुरोध = अवरुद्धवान् । हि= यतः रन्धं = शूलरहितं, शक्तिहीनमित्यर्थः प्रहर्तु = मारयितु शीलं येषां ते रन्ध्रप्रहारिणस्तेषां रन्ध्रप्रहारिणां जयः = विजयः सर्वस्य मुखस्य दर्शनः संमुखीनः = अभिमुखपाती भवत्येव । समासः—अपगतः शूल: यस्य स तम् अपगतशूलम् । लक्ष्मणस्य अनुजः लक्ष्मणानुजः । हिन्दी -- लक्ष्मण के छोटे भाई शत्रुघ्न ने इस प्रकार उस लवणासुर को पाकर ( शूल से रहित देखकर ) घेर लिया । ठीक ही है - शक्तिहीन शत्रुओं पर प्रहार करने वालों के सामने विजय खड़ी रहती है । अर्थात् ऐसे अवसर पर मारनेवाले की जीत निश्चित होती है ॥ १७ ॥ नातिपर्याप्तमालक्ष्य मत्कुक्षेरद्य भोजनम् । दिष्टया त्वमसि मे धात्रा भीतेनेवोपपादितः ॥ १८ ॥ इति संत शत्रुघ्नं राक्षसस्तज्जिघांसया । प्रांशुमुत्पाटयास मुस्तास्तम्बमिव द्रुमम् ॥ १९ ॥ युग्मम् । राक्षसो लवणः । अद्य मत्कुक्षेः । भुज्यत इति भोजनम् । भोजनम् । भोज्यं मृगादिकं नातिपर्याप्तमनतिसमग्रमालक्ष्य दृष्ट्वा भीतेनेव धात्रा दिष्टया भाग्येन मे त्वमुपपादितः
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy