SearchBrowseAboutContactDonate
Page Preview
Page 1133
Loading...
Download File
Download File
Page Text
________________ पञ्चदशः सर्गः २५९ समासः-कोशश्च दण्डश्चेति कोशदण्डौ । हिन्दी-और उसी रात्रि में शत्रुध्न की गर्भवती भाभी सोता ने उसी प्रकार तेजस्वी दो पुत्रों को जन्म दिया। जैसे कि पृथिवी ( राजा के लिये ) धन और दण्ड ( सेना) उत्पन्न करती है ।। १३ ॥ संतानश्रवणाभ्रातुः सौमित्रिः सौमनस्यवान् । प्राञ्जलिर्मुनिमामन्त्र्य प्रातर्युक्तरथो ययौ ॥ १४ ॥ भ्रातुज्येष्ठस्य संतानश्रवणाद्धेतोः सौमनस्यवान्प्रीतिमान्सौमित्रिः शत्रुघ्नः प्रातर्युक्तरथः सज्जरथः सन् । प्राञ्जलिः कृताञ्जलिर्मुनिमामन्त्र्यापृच्छय ययौ । अन्वयः-भ्रातुः सन्तानश्रवणात् सौमनस्यवान् सौमित्रिः प्रातः युक्तरथः सन् प्राञ्जलिः मुनिम् आमंत्र्य ययौ। व्याख्या-भ्राजते इति भ्राता तस्य भ्रातुः = ज्येष्ठस्य रामस्य सन्तानस्य = सन्ततेः श्रवणम् = आकर्णनमिति सन्तानश्रवणं तस्मात् सन्तानश्रवणात् , पुत्रोत्पत्तिश्रवणाद्धेतोः सुष्ठु मनः यस्य स सुमनाः, सुमनसः भावः कर्म वा सौमनस्यं, सौमनस्यं = प्रसन्नता अस्यास्तीति सौमनस्यवान् =प्रसन्नचित्तवान् सुमित्रायाः अपत्यं सौमित्रिः= सुमित्रापुत्रः शत्रुघ्नः प्रातः= प्रभाते युक्तः= सज्जीकृतः रथः = स्पन्दनो यस्य स युक्तरथः सन् प्रकृष्टोऽञ्जलिर्यस्य स प्राञ्जलिः= बद्धाञ्जलि: मुनि = महर्षिम् आमन्त्र्य = आपृच्छ्य ययौ = जगाम। स्वकार्यसम्पादनाय गतः इत्यर्थः । समासः-सन्तानन्य श्रवणमिति सन्तानश्रवणं तस्मात् सन्तानश्रवणात् । प्रकृष्टः अञ्जलि यस्य स प्राञ्जलिः । युक्तः रथो यस्य स युक्तरथः । हिन्दी-बड़े भाई की पुत्रोत्पत्ति सुनकर सुमित्रानन्दन शत्रुघ्न बड़े प्रसन्न हुए। और प्रातःकाल हाथ जोड़कर मुनि वाल्मीकि से पूछकर ( आज्ञा लेकर ) रथ में बैठ चल पड़े। अर्थात् लवणासुर को मारने को चल दिये ॥ १४ ॥ स च प्राप मधूपघ्नं कुम्मीनस्याश्च कुक्षिजः । वनात्करमिवादाय सत्त्वराशिमुपस्थितः ॥ १५ ॥ स शत्रुध्नश्च मधूपघ्नं नाम लवणपुरं प्राप । कुम्भीनसी नाम रावणस्वसा । तस्याः कुक्षिजः पुत्रो लवणश्च वनात्करं बलिमिव सत्वानां प्राणिनां राशिमादायोपस्थितः प्राप्तः ॥ अन्वयः स च मधूपघ्नं प्राप कुम्भीनस्याः कुक्षिजः च वनात् करम् इव सत्त्वराशिम् आदाय उपस्थितः । व्याख्या–स च=शत्रुघ्नश्च मधोः तन्नाम्नः दैत्यस्य उपघ्नः=आश्रय स्तं मधूपघ्नं= पुरं=मथुरामित्यर्थः। प्राप =आगतः। कुम्भीव नसा=नासा यस्याः सा कुम्भीनसी तस्याः कुम्भीनस्याः =रावणभगिन्याः कुक्षौ जातः = उत्पन्नः कुक्षिजः = पुत्रः लवणासुरश्च वनात् =
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy