SearchBrowseAboutContactDonate
Page Preview
Page 1130
Loading...
Download File
Download File
Page Text
________________ रघुवंशे हिन्दी-आशा मिलने के बाद बड़े भाई का आशीर्वाद प्राप्तकर तथा रथ पर चढ़कर राजा दशरथ के पुत्र शत्रुघ्न निर्भय होकर उस वनस्थली (जंगल की भूमि) को देखते हुए चल पड़े, जो कि खिले फूलों वाली तथा खूब सुगन्धित थी ॥ ८ ॥ रामादेशादनुगता सेना तस्यार्थसिद्धये । पश्चादध्ययनार्थस्य धातोरधिरिवामवत् ॥ ९॥ रामादेशादनुगता सेना तस्य शत्रुघ्नस्य । अध्ययनमर्थोऽभिधेयो यस्य तस्य । धातोः 'इङ् अध्ययने' इत्यस्य धातोः पश्चादधिरध्युपसर्ग इव । अर्थसिद्धये प्रयोजनसाधनायेत्येकत्र । अन्यत्राभिधेयसाधनाय अभवत् । 'अथोंऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु' इत्यमरः। यथा 'इडिकावध्युपसर्ग न व्यभिचरतः' इति न्यायेनाध्युपसर्गः स्वयमेवार्थसाधकस्य धातोः संनिधिमात्रेणोपकरोति सेनापि तस्य तद्वदिति भावः ॥ अन्वयः-रामादेशात् अनुगता सेना तस्य, अध्ययनार्थस्य धातोः पश्चात् अधिः इव अर्थसिद्धये अभवत् । व्याख्या-रामस्य = रामचन्द्रस्य राशः आदेशः = आशा इति रामादेशस्तस्मात् रामादेशात् अनु = पश्चात् गता=याता इति अनुगता= अनुगामिनी सेना = वाहिनी तस्य = शत्रघ्नस्य अध्ययनं = पठनम् अर्थः = अभिधेयः यस्य सः अध्ययनार्थस्तस्य अध्ययनार्थस्य धातोः = "इङ् अध्ययने” इति धातोः पश्चात् अधिः अध्युपसर्ग इव = यथा अर्थस्य = प्रयोजनस्य सिद्धिः = साफल्यं तस्यै अर्थसिद्धये, धातुपक्षे च अर्थस्य = अभिधेयस्य सिद्धिस्तस्यै अर्थसिद्धये अभवत् = अभूत्। यथा इङ् अध्ययने इक् स्मरणे चेति द्वौ धातू अध्युपसर्ग विना न प्रयोगाहौं, इति स्वयमेवार्थसाधकस्य धातोः सान्निध्यमात्रेणोपकरोति एवमेव सेनापि शत्रुघ्नस्य अनुगमनमात्रेणोपकरोति, वस्तुतः कार्य तु शत्रुघ्नः स्वयमेव सम्पादयतीति भावः। समासः-रामस्य आदेशः रामादेशस्तस्मात् रामादेशात् । अर्थस्य सिद्धिः अर्थसिद्धिः तस्यै अर्थसिद्धये । अध्ययनम् अर्थः यस्य स तस्य अध्ययनार्थस्य । हिन्दी-श्रीराम की आशा से शत्रुघ्न के पीछे जाती हुई सेना उसी प्रकार व्यर्थ थो जैसे कि अध्ययन ( पढ़ना ) अर्थ वाले इङ् धातु के पीछे लगा हुआ अधि उपसर्ग व्यर्थ होता है । इसलिये कि इङ् धातु का ही अध्ययन अर्थ है। इसी प्रकार शत्रुन्न एकाकी ही जीतने वाला है । सेना का पीछे रहना मात्र कार्य है ॥ ९॥ आदिष्टवर्मा मुनिमिः स गच्छंस्तपतां वरः। विरराज रथप्रष्ठेर्वालखिल्यैरिवांशुमान् ॥ १० ॥ रथप्रष्ठै रथाग्रगामिभिः । 'प्रष्ठोऽग्रगामिनि' इति निपातः । मुनिभिः पूर्वोक्तरादिष्टवर्मा निर्दिष्टमार्गो गच्छंस्तपतां देदीप्यमानानां मध्ये वरः श्रेष्ठः स शत्रुघ्नः वालखिल्यैर्मुनिभिरंशुमान्सूर्य इव विरराज । तेऽपि रथप्रष्ठा इत्यनुसंधेयम् ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy