SearchBrowseAboutContactDonate
Page Preview
Page 1124
Loading...
Download File
Download File
Page Text
________________ २५० रघुवंशे सीतां हित्वा दशमुखरिपुर्नोपयेरे यदन्यां __ तस्य। एव प्रतिकृतिसखो यत्क्रतूनाजहार । वृत्तान्तेन श्रवणविषयप्रापिणा तेन भर्तुः सा दुर्वारं कथमपि परित्यागदुःखं विषेहे ॥ ८७ ॥ दशमुखरिपू रामः सीतां हित्वा त्यक्त्वान्यां स्त्रियं नोपयेमे न परिणीतवानिति यत् । 'उपाद्यमः स्वकरणे' इत्यात्मनेपदम् । किंच। तस्याः सीताया एवं प्रतिकृतेः प्रतिमाया हिरण्मय्याः सखा प्रतिकृतिसखः सन्तूनाजहाराहृतवानिति यत्तेन श्रवणविषयप्रापिणा श्रोत्रदेशगामिना भर्तुर्वृत्तान्तेन वार्तया हेतुना सा सीता दुर्वारं दुनिरोधं परित्यागेन यदुःखं तत्कथमपि विषेरे विसोढवती ॥ इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया __ व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये सीतापरित्यागो नाम चतुर्दशः सर्गः ॥ अन्वयः-दशमुखरिपुः सीतां हित्वा अन्यां न उपयेमे, इति यत्, किंच तस्याः एव प्रतिकृतिसखः सन् ऋतून आजहार इति यत् तेन श्रवणविषयप्रापिणा भर्तुः वृत्तान्तेन सा दुर्वार परित्यागदुःखं कथम् अपि विषेहे। ___ व्याख्या-दश मुखानि = आननानि यस्य स दशमुखस्तस्य दशमुखस्य = रावणस्य रिपुः = शत्रुरिति दशमुखरिपुः = रामः सीतां = जानकी हित्वा = त्यक्त्वा अन्याम् = अपरां स्त्रियं न उपयेमे =न परिणीतवान् , न स्वीचकारेत्यर्थः। इति यत्, किंच तस्याः = सीतायाः एव प्रकृष्टा कृतिः प्रतिकृतिः। प्रतिकृतेः = प्रतिमायाः =सुवर्णमय्याः सखा इति प्रतिकृतिसखः सन् यज्ञे सौवणी सीतायाः मूर्ति पत्नीस्थाने कृत्वेत्यर्थः । ऋतून =अश्वमेधयशान् आजहार = कृतवान् इति यत् तेन कारणेन श्रवणयोः=श्रोत्रयोः विषयं = देशं प्रापी =गामी इति श्रवणविषयप्रापी तेन श्रोत्रविषयप्रापिणा, श्रुतेनेत्यर्थः। भर्तुः = स्वामिनः वृत्तान्तेन = वार्तया सा= सीता दुर्वारम् = असह्यम् परित्यागेन = गृहान्निष्कासनेन यत् दुःखं = क्लेशस्तत् परित्यागदुःखं कथमपि = केनापि प्रकारेण विषेहे = विसोढवती।। समासः-दश मुखानि यस्य स दशमुखः, दशमुखस्य रिपुरिति दशमुखरिपुः। प्रकृष्टा कृतिः प्रतिकृतिः, प्रतिकृतेः सखा प्रतिकृतिसखः । श्रवणयोः विषयः श्रवणविषयः, श्रवणविषयं प्राप्नोतिः तेन श्रवणविषयप्रापिणा । परित्यागेन यत् दुःखं तत् परित्यागदुःखम् । __हिन्दी-रावण के शत्रु राम ने सीता को छोड़कर, दूसरी स्त्री को स्वीकार नहीं किया। अर्थात् विवाह नहीं किया। किन्तु अश्वमेध यज्ञ में सीता की ही सुवर्ण की प्रतिमा को सहचारिणी बनाकर यशों को किया है। यह सब बातें जब सीता के कानों में पहुंची तो उसने परित्याग से जो असह्य दुःख हुआ था उसे किसी प्रकार सह लिया। अर्थात् मेरे पति देव मुझको हृदय से प्रेम करते हैं, मुझे भूले नहीं यह उक्त बातों से जानकर सीता परित्याग के दुःख भूल सी गई ॥ ८७ ॥ __इति श्रीशांकरिधारादत्तशास्त्रिमिश्रविरचितायां "छात्रोपयोगिनी" व्याख्यायां रघुवंशे महाकाव्ये सीतापरित्यागो नाम चतुर्दशः सर्गः ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy