SearchBrowseAboutContactDonate
Page Preview
Page 1121
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः सर्गः व्याख्या - तत्र = वाल्मीकेः आश्रमे अभिषिच्यते इति अभिषेकः, अभिषेकेण = स्नानेन प्रयता = नियता इति अभिषेकप्रियता, प्रतिदिनंनियमेन स्नानवतीत्यर्थः । वसन्ती = निवसन्ती विधिना = शास्त्रानुसारेण अतन्ति = निरन्तरं गच्छन्तीति अतिथयस्तेभ्यः अतिथिभ्यः = गृहगतेभ्य प्रयुक्ता = विहिता पूजा = सत्कारः यया सा प्रयुक्तपूजा वल्कलं = वृक्षत्वक् अस्याः अस्तीत वल्कलिनी, वृक्षत्वक् निर्मितवस्त्रधारिणीत्यर्थः सा = सीता पत्युः = भर्तुः, रामस्य प्रजायाः सन्तानस्य सन्तन्यते = विस्तार्यते गोत्रपरम्परा यत्र सा, सन्ततिः = अविच्छेदः, अविच्छिन्नपरम्परा इति यावत् इति प्रजासन्ततिस्तस्यै प्रजासन्ततये “सन्ततिः स्यात्पंक्तौ गोत्रे पारम्पर्ये च पुत्रपौत्राणाम्” इति मेदिनी । सन्तानहेतोरित्यर्थः वने भवं वन्यं तेन वन्येन = कन्दमूलफलादिना शरीरं = स्वदेहं बभार = धारयामास, पुष्णाति स्म च । = २४७ समासः - अभिषेकेण प्रयता, अभिषेकप्रयता का पूजा यया सा प्रयुक्तपूजा । प्रजायाः सन्ततिः प्रजासन्ततिस्तस्यै प्रजासन्ततये । हिन्दी- -उस आश्रम में निवास करती ( रहती ) हुई सीताजी नियमपूर्वक स्नान करती तथा शास्त्र में बताई गई विधि से अभ्यागतों का सत्कार करती, एवं वृक्षों की छाल का वस्त्र पहनती और केवल पति की वंशपरम्परा की रक्षा के लिये कन्दमूल फल से अपने शरीर की रक्षा करती थी । अर्थात् वन में स्वतः पैदा हुए कन्दमूलफल खाकर ही गर्भस्थ शिशु की रक्षार्थ शरीर धारण कर रही थी ॥ ८२ ॥ अपि प्रभुः सानुशयोऽधुना स्यात्किमुत्सुकः शक्रजितोऽपि हन्ता । शशस सीतापरिदेवनान्तमनुष्ठितं शासनमप्रजाय ॥ ८३ ॥ प्रभू राजाधुनापि सानुशयः सानुतापः स्यात्किम् । इति काकुः । उत्सुकः । शक्रजित इन्द्रजितो हन्ता लक्ष्मणोऽपि सीतापरिदेवनान्तं सीताविलापान्तमनुष्ठितं शासनमग्रजाय शशंस || अन्वयः - प्रभुः अधुना अपि सानुशयः स्यात् किम् इति काकुः । उत्सुकः शक्रजितः हन्ता अपि सीतापरिर्देवनान्तम् अनुष्ठितं शासनम् अग्रजाय शशंस । , 7 व्याख्या - प्रभवति = अनुग्रहादिकरणे समर्थों भवतीति प्रभुः = स्वामी, राजा अस्मिन् काले अधुना = सम्प्रति अपि अनुशयनमनुशयः अनुशेतेऽनेन वा अनुशयः । अनुशयेन पश्चात्तापेन सहितः सानुशयः स्यात् == भवेत् किम् इति काकुः । इति उत्सुकः = उत्कण्ठितः शक्रम् = इन्द्रं जयतीति शक्रजित् तस्य शक्रजितः = मेघनादस्य राणपुत्रस्य हन्ता == मारकः लक्ष्मणोऽपि सीतायाः परिदेवनं = विलापः इति सीतापरिदेवनं तस्य अन्तः = अवसानं मर्यादा, इति तं सीतापरिंदेवनान्तं, सीताकृतविलापपर्यन्तमित्यर्थः । “अन्तः स्वरूपे निकटे प्रान्ते निश्चयनाशयोः” इति हैमः । अनुष्ठितं = सम्पादितं शासनम् - आज्ञाम् अग्रे = प्रथमं पूर्वकाले जातः = उत्पन्नस्तस्मै अग्रजाय = ज्येष्ठभ्रात्रे रामाय शशंस = निवेदयामास । समासः - अनुशयेन सहितः सानुशयः । शक्रस्य जित् इति शक्रजित् तस्य शक्रजितः । सीतायाः परिदेवनमिति सीतापरिदेवनं तस्य अन्तस्तं सीतापरिदेवनान्तम् ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy