SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये ध्याख्या-प्रणिधानन= समाविमा, भावितः= शुद्धः, आत्मा= अन्तःकरणम्, यस्य सः, भावितात्मा, सः= महर्षिर्वसिष्ठः, भुवः= भूमेः, भर्तु:स्वामिनः, दिलीपस्य सन्ततेः= सन्तानस्य, स्तम्भस्य = प्रतिबन्धस्य, कारणम् = हेतुः, इति स्तम्भकारणं तत्, अपश्यत् = अवालोकयत्, अथ = अनन्तरम् , एनम् = अमुम्, दिलीपम्, प्रत्यबोधयत् = ज्ञापितवान् । समा०-भावितः आत्मा यस्य सः भावितात्मा । स्तम्भस्य कारणम् इति स्तम्भकारणम् तत् । अभि०--वसिष्ठः समाधिना दिलीपस्य सन्तानाभावरूपं कारणं ज्ञात्वा दिलीपायावोचत् । हिन्दी--महर्षि वसिष्ठ समाधि के द्वारा दिलीप के सन्तान न होने के कारण को जान गये और दिलीप को भी बतला दिया। पुरा शक्रमुपस्थाय तवोर्वी प्रति यास्यतः। आसीत्कल्पतरुच्छायामाश्रिता सुरभिः पथि ॥४५॥ सञ्जीविनी--पुरा पूर्व शक्रमिन्द्रमुपस्थाय संसेव्योवीं प्रति भुवमुद्दिश्य यास्यतो गमिष्यतस्तव पथि कल्पतरुच्छायामाश्रिता सुरभिः कामधेनुरासीत् । तत्र स्थितेत्यर्थः ॥७५॥ अन्वयः---पुरा, शक्रम, उपस्थाय, उवा, प्रति, यास्यतः, तव, पषि, कल्प. तरुच्छायाम, आश्रिता, सुरभिः, आसीत् । वाच्य०-आश्रितया, सुरभ्या, अभूयत । व्याख्या--पुरा=पूर्वम्, शक्रम् = इन्द्रम्, उपस्थाय= संसेव्य, उर्वीम् = पृथ्वीम्, प्रति = उद्दिश्य, यास्यति =गमिष्यति, इति यास्यन्, तस्य यास्यतःतव= दिलीपस्य,पथि = मार्गे,कल्पतरोः= कल्पवृक्षस्य, छाया = बनातपः, इति कल्पतरुच्छाया ताम् कल्पतरुच्छायाम्, आश्रिता= उपविष्टा, सुरभि:= कामधेनु,आसीत् 3अभूत्। समा०-यास्यति इति यास्यन् तस्य यास्यतः । कल्पतरो छाया इति कल्पतरुग्छाया ताम् कल्पतरुच्छायाम् । ममि०-पुरा कदाचित्त्वं शक्रभवनान्मृत्युलोकमागच्छन्नासीः, मार्गे च कल्पवृक्षस्याषः कामधेनुः स्थितासीत् ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy