SearchBrowseAboutContactDonate
Page Preview
Page 1115
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः सर्गः तवोरुकीर्तिः श्वशुरः सखा मे सतां भवोच्छेदकरः पिता ते । धुरि स्थिता त्वं पतिदेवतानां किं तन्न येनासि ममानुकम्पया ॥ ७४ ॥ उरुकीर्तिस्तव श्वशुरो दशरथो मे सखा । ते पिता जनकः सतां विदुषां भवोच्छेदकरो ज्ञानोपदेशादिना संसारदुःखध्वंसकारी । त्वं पतिदेवतानां पतिव्रतानां धुर्यग्रे स्थिता । येन निमितेन ममानुकम्प्यानुग्राह्या नासि तत्किम् । न किंचिदित्यर्थः । १६ २४१ अन्वयः - उरुकीर्तिः तव श्वशुरः मे सखा । ते पिता सतां भवोच्छेदकरः । त्वं पतिदेवतानां धुरि स्थिता, येन मम अनुकम्पया न असि तत् किम् । व्याख्या - उर्वी — महती, विश्रुता कीर्तिः = यशो यस्य सः उरुकीतिः तव = सीतायाः शु = आश्चर्ये पूजायां वा । शु = आशु अश्नुते अश्यते व श्वशुरः = रामपिता दशरथः मे = मम समानं ख्यायते जनैरिति सखा = मित्रम् । ते तव पिता = जनकः सतां = सज्जनानां भवस्य = संसारस्य उच्छेदं = नाशं करोतीति भवोच्छदकरः, मोक्षोपयोगिज्ञानोपदेशेन संसारे जन्ममरणदुःखध्वंसकारकः इत्यर्थः । त्वं = स्वयं सीता, पतिः = भर्ता एव देवता = देवः ईश्वरः यासां ताः पतिदेवता स्तासां पतिदेवतानां पतिव्रतानां धुरि = अग्रे स्थिता = वर्तमाना अग्रगण्या इत्यर्थः । येन = कारणेन मम = वाल्मीकेः अनुकम्पयितुं योग्या अनुकम्प्या = अनुग्राह्या न असि = न भवसि तत् किम् - अननुकम्ये न किंचिदपि कारणमुत्पश्यामीत्यर्थः । समासः -- उ कीर्तिः यस्य सः उरुकीर्तिः । भवस्य उच्छेदः भवोच्छेदः, भवोच्छदस्य करः भवोच्छेदकरः । पतिरेव देवता यासां ता स्तासां पतिदेवतानाम् । हिन्दी -- विख्यात यशस्वी तुम्हारे श्वशुर दशरथजी मेरे मित्र थे । और तुम्हारे पिता जनकजी संसार के जन्म-मरण रूपी दुःख से सज्जनों को छुड़ाने वाले हैं। याने ज्ञान का उपदेश देकर विद्वानों को जन्म-मरण से छुड़ाते हैं । और तुम स्वयं भी पतिव्रताओं में अग्रगण्य, श्रेष्ठ हो । अतः तुम मेरी कृपा के योग्य नहीं हो क्या । अर्थात् तुम में ऐसा कोई दोष नहीं है । अतः मेरे अनुग्रह के योग्य हो ।। ७४ ।। तपस्विसंसर्गविनीतसखे तपोवने वीतभया वसास्मिन् । इतो भविष्यत्यनवप्रसूतेरपत्यसंस्कारमयो विधिस्ते ।। ७५ ।। तपस्विसंसर्गेण विनीतसत्त्वे शान्तजन्तुकेऽस्मिंस्तपोवने वीतभया निर्भीका वस । ततोऽस्मिन्वनेऽनघप्रसूतेः सुखप्रसूतेस्तेऽपत्यसंस्कारमयो जातकर्मादिरूपो विधिरनुष्ठानं भविष्यति ॥ अन्वयः— तपस्विसंसर्गविनीतसत्त्वे अस्मिन् तपोवने वीतभया त्वं वस । इतः अनघप्रसूतेः ते अपत्यसंस्कारमयः विधिः भविष्यति । व्याख्या -- तपस्विनां = तापसानां, महर्षीणां संसर्गः = सम्वन्धः इति तपस्विसंसर्गः तपस्त्रिसंसर्गेण विनीताः==नम्राः शान्ताः सत्त्वाः = प्राणिनः जीवा इत्यर्थः यस्मिन् तत् तस्मिन् तपस्विसंसर्गबिनीतसत्त्वे अस्मिन् तपसां = तपस्यानां वनंकाननं तस्मिन् तपोवने, ममाश्रमे
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy