SearchBrowseAboutContactDonate
Page Preview
Page 1101
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः सर्गः मेघः= पयोदः उत्पतति, उत्पतनं वा उत्पातः । उत्पाते भवम् औत्पातिकम् - औपसगिकं, शुभाशुभसूचकं महाभूतविकारमित्यर्थः । अश्मनाम् = उपलानां वर्ष = वृष्टिम् इव = यथा उज्जगार = उद्गीर्णवान् भयंकरत्वेनाकथनीयत्वात्, उज्जगारेति कथनम् । “वर्षस्तुसमाद्वीपांशु. वृष्टिपु” इतिहैमः। ___ समासः-व्यवस्थापिता वाक् येन स व्यवस्थितवाक् । अन्तर्गतानि बाष्पाणि यस्मिन् सः अन्तर्गतवाष्पः अन्तर्गतबाष्पः कण्ठः यस्य सः अन्तर्गतबाष्पकण्ठः । अश्मनां वर्षस्तम् अश्मवर्षम् । मह्याः पतिः महीपतिः तस्य महीपतेः । हिन्दी-गंगापार उतरने के पश्चात् , किसी प्रकार अपनी वाणी को स्वाभाविक करके एवं भीतर ही भीतर उमड़े हुए आँसुओं से रुंधे कण्ठ वाले सुमित्रापुत्र लक्ष्मण ने राजाराम को आशा को उसी प्रकार उगल दिया जैसे मेघ भयंकर ओलों की वर्षा कर रहा हो। अर्थात् राम की कठोर आज्ञा सीता जी को सुना दी ॥ ५३ ॥ ततोऽभिषङ्गानिलविप्रविद्धा प्रभ्रश्यमानामरणप्रसूना । स्वमूर्तिलामप्रकृतिं धरित्री लतेव सीता सहसा जगाम ॥ ५४ ॥ ततः अभिषङ्गः पराभवः। 'अभिषङ्गः पराभवे' इत्यमरः । स एवानिलस्तेन विपविद्धा अभिहता। प्रभ्रश्यमानानि पतन्त्याभरणान्येव प्रसूनानि यस्याः सा सोता लव । सहसा स्वमूर्ति. लाभस्य स्वशरीरलाभस्य स्वोत्पत्तेः प्रकृति कारणं धरित्री जगाम । भूमौ पपातेत्यर्थः । स्त्रोणामापदि मातैव शरणमिति भावः ॥ अन्वयः-ततः अभिषंगानिलविपविद्धा प्रभ्रश्यमानाभरणप्रसूना सीता लता इव सहसा स्वमूर्तिलाभप्रकृतिं धरित्री जगाम । व्याख्या-ततः = रामाशाश्रवणानन्तरम् अभिषञ्जनमभिषंगः= पराभवः पतिपरित्यागरूप इत्यर्थः । एव अनिलः =वायुस्तेन विप्रविद्धा = अभिहता, इति अभिषंगानिलविप्रविद्धा, "अभिषंगः पराभवे" इत्यमरः । आभरणानि = आभूषणानि एव प्रसूनानि = कुसुमानि, इति आभरणप्रसूनानि, प्रकर्षण भ्रश्यमानानि =परितः पतन्ति आभरणप्रसूनानि, यस्याः सा प्रभ्रश्यमानाभरणप्रसूना सीता=जनकात्मजा लता= वल्लरी इव = यथा सहसा = झटिति स्वस्य = निजस्य मूर्तिः =शरीरं तस्याः लाभः- उत्पत्तिः, इति स्वमूर्तिलाभस्तस्य प्रकृतिः = कारणं तां स्वमूर्तिलाभप्रकृतिं परति विश्वं या सा धरित्री तां धरित्री = पृथिवीं जगाम= गता । पतिपरित्यागरूपपराभवश्रवणसमनन्तरं भूमौ पपातेत्यर्थः । आपत्काले स्त्रीणां जननी एव शरणमिति तात्पर्यम् । समासः-अभिषंगः एव अनिलः, अभिषंगानिलस्तेन विप्रविद्धा इति अभिषंगानिलविप्रविद्धा। आभरणानि एव प्रसूनानि, इति आभरणप्रसूनानि, प्रभ्रश्यमानानि आभरणप्रसूनानि यस्याः सा प्रभ्रश्यमानाभरणप्रसूना। स्वस्य मूर्तिः स्वमूर्तिः, स्वमूतः लाभः स्वमूर्तिलाभः, स्वमूर्तिलाभस्य प्रकृतिस्तां स्वमूर्तिलाभप्रकृतिम् ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy