SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये ___अभि०-हे भगवन्, ममेदानी पैतृकमृणं तथा सोढुमशक्यं वर्तते यथा स्नानक्रियाशून्यस्य गजस्य मर्मव्यथाजनको बन्धनस्तम्भः । हिन्दी--हे भगवन्, इस समय मुझे पैतृक ऋण इस प्रकार कष्ट पहुंचा रहा है जिस प्रकार कि स्नान-क्रिया न होने से हाथी को उसके बन्धन का खूटा ॥७१॥ तस्मान्मुच्ये यथा तात संविधातुं तथाहसि। इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः ॥७२॥ सञ्जीविनी-- हे तात! तस्मात्पैतृकादृणाद्यथा मुच्ये मुक्तो भवामि । कर्मणि लट । तथा संविधातुं कर्तुमर्हसि । हि यस्मात्कारणादिक्ष्वाकणामिक्ष्वाकुवंश्वानाम् । तद्राजत्वाद्वहुष्वणो लुक । दुरापे दुष्प्राप्येऽर्थे । सिद्धयस्त्वदधीनास्त्वदायत्ताः । इक्ष्वाकणामिति शेषे षष्ठी। 'न लोक-' इत्यादिना कृद्योगे षष्ठीनिषेधात् ॥७२॥ मन्वयः--हे तात, तस्मात्, यथा, मुच्ये, तथा, संविधातुम्, 'स्वम् अहसि, हि. इक्वाकणाम्, दुरापे, अथे, सिद्धयः, स्ववधीनाः। बाच्य०--मया मुच्यते, त्वया अद्यते, सिद्धिभिः त्वदधीनाभिः भयते । ___ व्याल्या--हे तात=पितः, तस्मात् = पैतृकादृणात्, यथा= येन प्रकारेण, मुच्ये = मुक्तो भवामि, तथा = तेन प्रकारेण, संविधातुम् = कर्तुम्, अर्हसि = योग्यो भवसि. हि = यतः, इक्ष्वाकूणाम् = इक्ष्वाकुकुलोत्पन्नानां नृपाणाम् दुरापे= दुष्प्रापे, अर्थ प्रयोजने, सिद्धयः= कार्यसाफल्यानि, तव = वसिष्ठस्य,अधीना:= आयत्ताः, इति त्वदधीनाः । समा०--दुःखेन आप्यते यः सः दुरापः तस्मिन् दुरापे । तव अधीनाः इति त्वदधीनाः। अभि०-हे गुरो ! तस्माद्यथाहं पैतृकादणान्मुक्तो भवामि तथोपायं कुरु, सत: इक्ष्वाकुवंशीयानां राज्ञां दुष्कराणामपि कार्याणां सिद्धयस्त्वदायत्ताः सन्ति । हिन्दी- हे गुरो, इसलिये जिससे कि मैं पितृऋण से उन्मुक्त हो सकें ऐसा उपाय कीजिये, क्योंकि इक्ष्वाकुवंशी राजाओं के कठिन कार्यों की सिदि पापके ही आधीन है ॥७२॥ इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः । क्षणमात्रमृषिस्तथौ सुप्तमीन इव हदः ॥७३॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy