SearchBrowseAboutContactDonate
Page Preview
Page 1096
Loading...
Download File
Download File
Page Text
________________ २२२ रघुवंशे तवान् । 'भाषायां सदवसश्रुवः' इति कसुप्रत्ययः। स लक्ष्मणस्तदग्रजशासनं प्रत्यग्रहीत् । हि यस्माद्गुरूणामाशाऽविचारणीया ॥ अन्वयः-पितुः नियोगात् भार्गवेणमातरि द्विषद्वत् प्रहृतंशुश्रुवान् सः तत् अग्रजशासनं प्रत्यग्रहीत्, हि-गुरूणाम् आशा अविचारणीया । __ व्याख्या-पितुः = जनकस्य जमदग्नेः नियोगात् = शासनात् भृगोः अपत्यं पुमान् भार्गवस्तेन भार्गवेण == परशुरामेण कर्ता मातरि= रेणुकायां द्विषति इव द्विषद्वत् = शत्रुवत् प्रहृतं = प्रहारं कुठारेण कण्ठच्छेदनामित्यर्थः शुश्रुवान् =आकर्णितवान् सः= लक्ष्मणः तत् = सीतापरित्यागरूपम् अग्रजस्य = ज्येष्ठभ्रातुः शासनम् = आज्ञापनमिति अग्रजेशासनं तत् प्रत्यग्रहीत् = स्वीचकार । हि = यस्मात् गुरूणां = पूज्यानाम् आज्ञा = निदेशः न विचारणीया अविचारणीया - अचिन्तनीया । तत्कर्तव्यतायां विचारयितुं न योग्येत्यर्थः । समासः–अग्रे जातः इत्यग्रजः । अग्रजस्य शासनमिति अग्रजशासनं तत् । न विचारणीया इति अविचारणोया। हिन्दी-पिता की आशा से परशुराम जी ने अपनी माँ को कुठार से शत्रु के समान मार डाला था, यह लक्ष्मण ने सुन रखा था। इसलिये पिता के समान बड़े भाई की उस आशा को लक्ष्मण ने स्वीकार कर लिया था। ठीक ही है, बड़ों की आज्ञा विचार के योग्य नहीं है। अर्थात् बड़ों की आशा को बिना विचारे शिरोधार्य करना चाहिये ॥ ४६ ॥ अथानुकूलश्रवणप्रतीतामत्रस्नुमियुक्तधुरं तुरंगैः । रथं सुमन्त्रप्रतिपन्नरश्मिमारोप्य वैदेहसुतां प्रतस्थे ॥ ७ ॥ अथासौ लक्ष्मणः । अनुकूलश्रवणेन प्रतीतामिष्टाकर्णनेन तुष्टां वैदेहसुतामत्रस्नुभिरभीरुभिर्गर्भिणीवहनयोग्यैः । 'बसिगृधिधृषिक्षिपेः क्रुः' इति क्नुप्रत्ययः । तुरंगैर्युक्तधुरं सुमन्त्रण प्रतिपन्नरश्मि गृहीतप्रग्रहं रथमारोप्य प्रतस्थे ॥ __अन्वयः-अथ असौ अनुकूलश्रवणप्रतीतां वैदेहसुताम् अत्रस्नुभिः तुरङ्गैः युक्तधुरं सुमंत्र प्रतिपन्नरश्मि रथम् आरोप्य प्रतस्थे। व्याख्या-अथ = अनन्तरम् असौ लक्ष्मणः अनुकूलस्य = अभिलषितस्य, इष्टस्येत्यर्थः श्रवणम् =आकर्णनं तेन प्रतीता=प्रसन्ना, ताम् अनुकूलश्रवणप्रतीतां वैदेहस्य = राशो जनकस्य सुता= पुत्री तां वैदेहसुताम् , त्रस्यन्तीति त्रस्नवः, न त्रस्नवः अत्रस्नवस्तैः अत्रस्नुभिः = अभीरुकैः, भयरहितैरित्यर्थः तुरेण = त्वरया गच्छन्तीति तुरंगा श्वैः तुरंगैः = अश्वैः, गर्भवतीवहनयोग्यरित्यर्थः युक्ता =संलग्ना धुः = यानमुखं यस्य स तं युक्तधुरं सुमन्त्रेण = दशरथस्य मन्त्रिणा, सारथिना च प्रतिपन्नाः =प्रगृहीताः रश्मयः = प्रग्रहाः यस्य स तं सुमंत्रप्रतिपन्नरश्मिम् रथं स्यन्दनम् आरोप्य = उपवेश्य प्रतस्थेः = चचाल । समासः-अनुकूलस्य श्रवणमिति अनुकूलश्रवणम् , अनुकूलश्रवणेन प्रतीता ताम् अनुकूल
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy