SearchBrowseAboutContactDonate
Page Preview
Page 1085
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः सगः २११ समासः-प्रकृष्टः वीरः प्रवीरः, रघुषु प्रवीरः, रघुप्रवीरः। पार्श्वचरैः अनुयातः, पार्श्व. चरानुयातः। हिन्दी-रघुकुल में श्रेष्ठ पूज्य रामचन्द्र जी, सीता जी के तपोवन जाने की इच्छा रूपी मनोरथ को स्वीकार करके अपने सेवकों के साथ, सुन्दर अयोध्या को छटा को देखते हुए आकाश को छूने वाले अपने महल के ऊपर ( छत पर ) चढ़ गये ॥ २९ ॥ ऋद्धापणं राजपथं स पश्यन्विगाह्यमानां सरयं च नौभिः । विलासिभिश्चाध्युषितानि पौरैः पुरोपकण्ठोपवनानि रेमे ॥ ३० ॥ __ स रामः। ऋद्धाः समृद्धा आपणाः पण्यभूमयो यस्मिस्तं राजपथम् । नौभिः समुद्रवाहिनीभिविगाह्यमानां सरयूं च । पौरैविलासिभिरध्युषितानि पुरोपकण्ठोपवनानि च पश्यन्रेमे । विलासिन्यश्च विलासिनश्च विलासिनः । 'पुमान्स्त्रिया' इत्येकशेषः ॥ अन्वयः-सः ऋद्धापणं राजपथं, नौभिः विगाह्यमानां सरयूं च, पौरैः विलासिभिः अध्युषितानि पुरोपकण्ठवनानि पश्यन् रेमे।। व्याख्या-सः = रामः आ = समन्तात् पणायन्तेऽत्र, पणन्तेऽत्र वा आपणः। ऋद्धाः = सम्पन्नाः = समृद्धिशालिनः आपणाः = हट्टा यस्मिन् स तम् ऋद्धापणं राज्ञां पन्थाः राजपथस्तं राजपथं = राजमार्ग, नुद्यन्ते नयन्ति पारमिति नावस्ताभिः नौभिः "स्त्रियां नौस्तरणिस्तरिः" इत्यमरः । नौकाभिः, समुद्रवाहिनीभिरित्यर्थः। विगाह्यते इति विगाह्यमाना तां विगाह्यमानाम् = आलोड्यमानां सरयूं = नदीं च पुरे भवाः पौरा स्तैः पौरैः = नागरिकैः विलासिन्यश्च विलासिनश्च विलासिनस्तै विलासिभिः = विलसनशीलैः अध्युषितानि = अधिष्ठितानि, सेवितानीत्यर्थः पुरस्य = नगरस्य उपकण्ठं = समीपमिति पुरोपकण्ठं, पुरोपकण्ठे = नगरसमीपे यानि उपवनानि = आरामाः, तानि पुरोपकण्ठोपवनानि च पश्यन् = अवलोकयन् रेमे = चिक्रीड । एतत्सर्व विलोक्य रामः प्रसन्नोऽभूदित्यर्थः। समासः-ऋद्धाः आपणाः यस्मिन् स तं ऋद्धापणम् । राज्ञां पन्थास्तं राजपथम् । उपगतः कण्ठमिति उपकण्ठम् पुरस्य उपकण्ठमिति पुरोपकण्ठं तस्मिन् यानि उपवनानि, परोपकण्ठोपवनानि तानि। हिन्दी--"राजभवन पर चढ़कर" श्रीरामचन्द्र जी, धनधान्य भरे राजमार्ग ( बाजार ) को, तथा नौका व बजरों से अवगाहन की जा रही सरयू नदी को, और अयोध्या के आसपास के उद्यानों में विहार करने वाले नगर के शैलानी जनों को देखकर बड़े प्रसन्न हुए ॥ ३० ॥ स किंवदन्तीं वदतां पुरोगः स्ववृत्तमुद्दिश्य विशुद्धवृत्तः । साधिराजोरुभुजोऽपस पप्रच्छ भद्रं विजितारिभद्रः ॥ ३१ ॥ वदतां वाग्मिनां पुरोगः श्रेष्ठो विशुद्धवृत्तः । सर्पाधिराजः शेषस्तद्वदुरू भुजौ यस्य स विजितारिभद्रो विजितारिश्रेष्ठः स रामः स्ववृत्तमुद्दिश्य भद्रं भद्रनामकमपसर्प चरं किंवदन्ती जनवादं पप्रच्छ । 'अपसर्पश्चरः स्पशः' इति, 'किंवदन्ती जनश्रुतिः' इति चामरः ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy