SearchBrowseAboutContactDonate
Page Preview
Page 1077
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः सर्गः २०३ सभाजनायोपगतान्स दिव्यान्मुनीन्पुरस्कृत्य हतस्य शत्रोः । शुश्राव तेभ्यः प्रभवादि वृत्तं स्वविक्रमे गौरवमादधानम् ॥ १८॥ स रामः सभाजनायाभिनन्दनायोपगतान्दिवि भवान्मुनीनगत्यादीन्पुरस्कृत्य हतरय शत्रो रावणस्य प्रभवादि जन्मादिकं स्वविक्रमे गौरवमुत्कर्षमादधानं वृत्तं तेभ्यो मुनिभ्यः शुश्राव । श्रुतवान् । विजितोत्कर्षाज्जेतुरुत्कर्ष इत्यर्थः ॥ अन्वयः-सः सभाजनाय उपागतान् दिव्यान् मुनीन् पुरस्कृत्य हतस्य शत्रोः प्रभवादि स्वविक्रमे गौरवम् आदधानं वृत्तं तेभ्यः शुश्राव।। व्याख्या-सः =रामः सभाजनाय = अभिनन्दनाय, धन्यवादादिप्रदानायेत्यर्थः उपागतान् अयोध्यायां समावतान् दिवि भवाः दिव्यास्तान् दिव्यान् = स्वर्गीयान् मन्तारो मुनयरतान् मुनीन् = अगस्त्यादीन् पुरस्कृत्य = सम्मान्य, सत्कारादिना पूजयित्वा हतस्य = मृतस्य शत्रोः= रावणस्य प्रभवः= जन्म आदिर्यस्मिन् तत् प्रभवादि स्वस्य =रामस्य विक्रमः= शौर्य तस्मिन् स्वविक्रमे गुरोर्भावः गौरवम् = उत्कर्षम् आदधानम् - वर्धकं वृत्तं = जातम् , इतिहासं तेभ्यः = मुनिभ्यः शुश्राव = श्रुतवान् । विजितस्य शत्रोरुत्कर्षवर्णनेन विजेतुः स्वस्योत्कर्षः भवतीत्यर्थः । समासः-प्रभवः आदिः यस्मिन् तत् प्रभवादि। स्वरय विक्रमः स्वविक्रमस्तस्मिन् स्वविक्रमे । पुरः कृत्वा पुरस्कृत्य । हिन्दी-"और तब" राम ने, अभिनन्दन करने ( वधाई देने ) के लिये आए हुए स्वर्गीय अगस्त्यादि मुनियों का स्वागत-सत्कार करके, मारे हुए अपने शत्रु रावण का जन्म से लेकर मरण पर्यन्त इतिहास उन मुनियों से सुना, जो इतिहास राम के पराक्रम को बढ़ाने वाला था ॥१८॥ प्रतिप्रयातेषु तपोधनेषु सुखादविज्ञातगतार्धमासान् । सीतास्वहस्तोपहृताग्र्यपूजान्रक्षःकपीन्द्राविससर्ज रामः ॥ १९॥ तपोधनेषु मुनिषु प्रतिप्रयातेषु प्रतिनिवृत्त्य गतेषु सत्सु सुखादविज्ञात एव गतोऽर्धमासो येषां ताननन्तरं सीतायाः स्वहस्तेनोपहृता दत्ताग्यपूजोत्तमसंभावना येभ्यरतान् । एतेन सौहार्दातिय्य उक्तः । रक्षःकपीन्द्रान्रामो विससर्ज विसृष्टवान् ॥ अन्वयः-तपोधनेपु प्रयातेषु सत्सु सुखात् अविशातगतार्थमासान् सीतास्वहरतोपहताग्यपूजान् रक्षःकपीन्द्रान् रामः विससर्ज । ___ व्याख्या-तपः तपस्या एव धनं = वित्तं येषां ते, तेषु तपोधनेषु = मुनिपु प्रयातेषु = प्रतिनिवृत्तेषु सत्सु शोभनानि खानि = इन्द्रियाणि, अनेन तत्सुखं तस्मात् सुखात् = कल्याणात् न विज्ञातः अविज्ञातः = शानस्याविषयीभूतः गतः =व्यतीतः अर्धमासः= पञ्चदशदिनात्मकपक्षः येषां ते तान् अविशातगतार्धमासान् , अनन्तरं सीतायाः=जानक्याः स्वहस्तेन = निजकरेण उपहृता दत्ता अग्य = श्रेष्ठा पूजा= सपर्या येभ्यस्ते तान् सीतास्वहस्ताग्यपूजान् = कृतसम्भावनान् , इत्यर्थः । कपीनां = वानराणाम् इन्द्राः = स्वामिनः, इति कपीन्द्राः। रक्षांसि = कपीन्द्राश्च
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy