SearchBrowseAboutContactDonate
Page Preview
Page 1073
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः सर्गः १९९ व्याख्या-वायोः= पवनस्य वशः = अधीनस्तेन वायुवशेन, वायुनेत्यर्थः भिन्ना = विस्तारिता कालञ्च तदगुरु कालागुरु। कालागुरुणः = कृष्णचन्दनविशेषस्य धूमः, इति कालागुरुधूमः प्रसीदति मनः अस्मिन् स प्रासादः “प्रासादो देवभूभुजाम्" इत्यमरः प्रासादे =राजभवने यः कालागुरुधूमः, इति प्रासादकालागुरुधूमस्तस्य राजिः लेखाः = पंक्तिः इति प्रासादकालागुरुधूमराजिः । वनात् = अरण्यात् वनवासादित्यर्थः निवृत्तेन = परावृत्तेन रघूणाम् उत्तमस्तेन रघूत्तमेन = रघुश्रेष्ठेन, रामेण स्त्रयम् = आत्मना मुक्ता = विस्रंसिता तस्याः = अयोध्यायाः पुरः- नगर्याः वेणिः = प्रवेणी, केशबन्ध इत्यर्थः । इत्र = यथा आबभासे = शुशुभे । अत्रायोध्यानगर्याः पतिव्रतात्वं सूचितमित्यर्थः । समासः-वायोः वशः वायुवशस्तेन वायुवशेन । कालम् अगुरु कालागुरु तस्य धूमः, इति कालागुरुधूमः, प्रासादे यः कालागुरुधूमः तस्य राजिार ति सामादकालागुरुधूमराजिः । रघूणाम् उत्तमस्तेन रघूत्तमेन। हिन्दी-वायु से “आकाश में” फैलाई गई जो राजभवन के ऊपर काले अगर के धूएँ की रेखा थी, वह ऐसी सुन्दर लग रही थी, मानों वनवास से लौटकर रघुवंशियों में श्रेष्ठ राम ने अपने हाथ से अयोध्या नगरी का जूड़ा (चोटी) खोल दिया हो। विशेष-धर्मशास्त्रानुसार प्रोषितभर्तृका को न तो श्रृंगार करना चाहिये और न चोटी जूड़ा ही खोलना चाहिये । अयोध्यापति राम भी बनवास में थे । अतः चौदह वर्ष बाद राम के आने पर ही शृंगार, सजावट, तथा वेणीमोक्ष का वर्णन महाकवि ने किया है ॥ १२ ॥ श्वश्रजनानुष्ठितचारुवेषां कीरथस्थां रघुवीरपत्नीम् । प्रासादवातायनदृश्यबन्धैः साकेतनार्योऽञ्जलिमिः प्रणेमुः ॥ १३ ॥ श्वश्रूजनैरनुष्ठितचारवेषां कृतसौम्यनेपथ्याम् । 'आकल्पवेषौ नेपथ्यम्' इत्यमरः । कर्णोरथः स्त्रीयोग्योऽल्परथः। 'कणारथः प्रवहणं डयनं रथगर्भके' इति यादवः। तत्रस्थां रघुवीरपत्नी सीतां साकेतनार्यः प्रासादवातायनेषु दृश्यबन्धैर्लक्ष्यपुटैरञ्जलिभिः प्रणेमुः ॥ । अन्वयः- श्वश्रूजनानुष्ठितचारुवेषां करिथस्थां रघुवीरपत्नीम् साकेतनार्यः प्रासादवातायनदृश्यबन्धैः अअलिभिः प्रणेमुः। व्याख्या-श्वशुरस्य पत्नी श्वश्रूः = पत्युः माता। श्वश्रवः एव जनाः श्वश्रूजनाः । श्वश्रूजनैः= राममातृभिः अनुष्ठितः = कृतः, रचितः चारः = सुन्दर: वेषः नेपथ्यं यस्याः सा तां श्वश्रूजनानुष्ठित चारवेषाम् "आकल्पवेषौ नेपथ्यम्" इत्यमरः। श्रवणक्रियोपचारात् कर्णः । कर्णोऽस्यास्तीति कर्णो । कर्णा चासौ रथश्च कारथः, शब्दमात्रेण रथः नतु वास्तवेन । अथवा कर्णः = स्कन्धः सामीप्यात् अस्यास्ति वाहकत्वेन स्कन्धवाह्यः रथः, इति कारथः तत्र तिष्ठतीति करिथस्था तां कारथस्थां= मनुष्यस्कन्धवाद्ययानोपविष्टान् रधूणां वीरः रघुवीरः, रघुवीरस्य = रामस्य पत्नी सीता तां रघुवीरपत्नी साकेतस्य = अयोध्यानगरस्य नार्यः= स्त्रियः इति साकेतनार्यः= अयोध्यानिवासिन्य इत्यर्थः, ईयतेऽनेन तत् अयनं वातस्य = वायोः अयनं = मार्गः, इति वातायनम् । प्रासादानां =राजभवनानां वातायनानि = गवाक्षाः, इति प्रासादवातायनानि, तेष
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy