SearchBrowseAboutContactDonate
Page Preview
Page 1071
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः सर्गः १९७ . भूयः उक्तं = कथनमिति पुनरुक्तं = पुनर्वचनम् पुनरुक्तं कथितपदत्वं नाम दोषः = दूषणं यस्याः सा पुनरुक्तदोषा आसीत् = अभूत् । रामः तपस्विवेषेऽपि अतीव सुन्दरः आसीत् राजोचितपरिधानेन तु ततोऽप्यधिकं तस्य सौन्दर्य जातमित्यर्थः । समासः-तपस्विनां वेषः, तपरिववेषः, तस्य क्रिया तया तपस्विवेषक्रियया। राशामिन्द्रः, राजेन्द्रः, राजेन्द्रस्य नेपथ्यमिति राजेन्द्रनेपथ्यं तस्य विधानं तेन या शोभा इति राजेन्द्रनेपथ्यविधानशोभा । पुनः उक्तं पुनरुक्तं दोषो यस्याः सा पुनरुक्तदोषा। हिन्दी-नीराम तपस्वियों का वेष धारण करने पर भी अत्यन्त, सुन्दर थे। तथा इस समय ( राजतिलक के समय ) राजराजेश्वर के वस्त्र-भूषण के धारण करने से बढ़ी-चढ़ी उनकी शोभा पुनरुक्त नामक दोष के समान ही रही। अर्थात् राजसी ठाट-बाट में पहले से दुगुने सुन्दर लग रहे थे ॥९॥ स मौलरक्षोहरिभिः ससैन्यस्तूर्यस्वनानन्दितपौरवर्गः । विवेश सौधोद्गतलाजवर्षामुत्तोरणामन्वयराजधानीम् ॥ १० ॥ स रामः ससैन्यस्तूर्यस्वनैरानन्दितपौरवर्गः सन् । मूले भवा मौला मन्त्रिवृद्धास्तै रक्षोभिहरिभिश्च सह सौधेभ्य उद्गतलाजवर्षामुत्तोरणामन्वयराजधानीमयोध्या विवेश प्रविष्टवान् ॥ अन्वयः-सः ससैन्यः तूर्यस्वनानन्दितपौरवर्गः सन् मौलरक्षोहरिभिः सह सौधोद्गतलाजवर्षाम् उत्तोरणाम् अन्वयराजधानीम् विवेश। व्याख्या-सः= रामः सेनायां समवेताः सैन्याः, सैन्यैः सहितः ससैन्यः पुरेभवाः पौराः, पौराणां = नागरिकाणां वर्गः =समूहः इति पौरवर्गः । तूर्यन्ते = ताड्यन्ते इति तूर्याः । तूर्याणां = वाद्यानां स्वनाः= शब्दास्तैः आनन्दितः=सुखितः, रञ्जितः पौरवर्गः येन स तूर्यस्वनानन्दितपौरवर्गः सन् , मूलं वेत्ति, मूलादागतो वा मौल:= वंशक्रमागतमंत्री । मौलाश्च रक्षांसि = विभीषणादयश्च हरयः= हनुमदादयश्च इति मौलरक्षोहरयस्तैः मौलरक्षोहरिभिः सह = साकम् , सुधालेपो येषामस्ति ते सौधाः राजसदनानि तेभ्यः उद्गता = पतिता लाजानां = भ्रष्टधान्यानां वर्षा = वृष्टिः यस्यां सा तां सौधोद्गतलाजवर्षाम् तुतुरति = त्वरया बहिर्गच्छन्त्येनेति तोरणः। उत् = ऊर्ध्वम् = उन्नताः = तोरणाः = बहिराणि यस्यां सा ताम् उत्तोरणाम् । "तोरणोऽस्त्री बहिरम्" इत्यमरः। धीयतेऽस्यां सा धानी, राश = भूपालानां धानी =नगरी, इति राजधानी । अन्वयस्य = रघुकुलस्य राजधानी ताम् अन्वयराजधानीम् = अयोध्याम् विवेश= प्रविष्टवान् । __ समासः-सैन्यैः सहितः ससैन्यः। तूर्याणां स्वनास्तैः आनन्दिताः पौराणां वर्गाः येन स तुर्यस्वनानन्दितपौरवर्गः। मौलाश्च रक्षांसि च हरयश्चेति मौलरक्षोहरयस्तैः मौलरक्षोहरिभिः । सौधेभ्यः उद्गता लाजानां वर्षा यस्यां सा तां सौधोद्गतलाजवर्षाम् । उत् = उन्नताः तोरणाः यस्यां सा ताम् उत्तोरणाम् । राशां धानी राजधानी, अन्वयस्य राजधानी, ताम् अन्वय राजधानीम् ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy