SearchBrowseAboutContactDonate
Page Preview
Page 1068
Loading...
Download File
Download File
Page Text
________________ १९४ रघुवंशे पुत्रों के कष्ट और बिछोह के दुःख का अनुभव कर वीरपुत्र की माता होना उन्हें अच्छा नहीं लगा ॥ ४॥ क्लेशावहा भर्तुरलक्षणाहं सीतेति नाम स्वमुदीरयन्ती । स्वर्गप्रतिष्ठस्य गुरोमहिष्यावभक्तिभेदेन वधूर्ववन्दे ॥५॥ आवहतीत्यावहा । भर्तुः क्लेशावहा क्लेशकारिणी । अत एवालक्षणाहं सीतेति स्वं नामोदीरयन्ती स्वर्गः प्रतिष्ठास्पदं यस्य तस्य स्वर्गस्थितस्य गुरोः श्वशुरस्य महिष्यौ श्वश्वौ वधूः स्नुषा । 'वधूः स्नुषा वधूर्जाया' इत्यमरः। अभक्तिभेदेन ववन्दे । स्वर्गप्रतिष्ठस्येत्यनेन श्वश्रूवैधव्यदर्शनदुःखं सूचितम् ॥ अन्वयः-भर्तुः वलेशावहा अतः एव अलक्षणा अहं सीता इतिं स्वं नाम उदीरयन्ती स्वर्गप्रतिष्ठस्य गुरोः महिप्यौ वधूः अभक्तिभेदेन ववन्दे । व्याख्या-बिभतीति भर्ता तस्य भर्तुः = पत्युः, रामस्य आवहतीति आवहा क्लेशानां = दुःखानाम् आवहा = कारिणी, इति क्लेशावहा, पत्युः कष्टकारिणीत्यर्थः, अतः एव लक्षयति भाग्यादिसूचकं शुभाशुभमिति लक्षणम् । नास्ति लक्षणं यस्याः सा अलक्षणा अहं सोता=अहं जानकी इति= इत्थं स्वं = स्वकीयं नाम उदीरयन्ती = उच्चारयन्ती स्वर्गः= देवलोकः प्रतिष्ठा= आस्पदं यस्य स स्वर्गप्रतिष्ठः तस्य स्वर्गप्रतिष्ठस्य स्वर्गगतस्य गुरोः पूज्यस्य श्वशुरस्य मह्यते = पूज्यते इति महिषी । महिषी च महिषी चेति महिष्यौ राजपत्न्यौ, श्वश्वौ वधूः =स्नुषा, सीता भजनं भक्तिः, तस्याः भेदः = तारतम्यमिति भक्तिभेदः नभक्तिभेद इति अभक्तिभेदस्तेन अभक्तिभेदेन, समानरूपेणेत्यर्थः। ववन्दे = प्रणनाम । समासः-क्लेशानाम् आवहा क्लेशावहा । न लक्षगं यस्याः सा अलक्षणा । स्वर्गः प्रतिष्ठा यस्य स तस्य स्वर्गप्रतिष्ठस्य । भक्तभेदः भक्तिभेदः, न भक्तिभेदस्तेन अभक्तिभेदेन । हिन्दी-पति के कष्ट को बढ़ाने वाली कुलक्षणा मैं सीता हूँ—इस प्रकार अपना नाम कहती हुई, “सीताजी ने" स्वर्गवासी ससुर दशरथजी की दोनों रानियों को 'चरण छूकर' समान ( एकसी ) भक्ति से प्रणाम किया। स्वर्गवासी कहने का तात्पर्य यह है सास के वैधव्य को देखने से सीताजी बड़ी ही दुःखी हैं ।। ५ ।। उत्तिष्ठ वत्से ननु सानुजोऽसौ वृत्तेन भर्ता शुचिना तवैव । कृच्छं महत्तीर्ण इति प्रियाहाँ तामूचतुस्ते प्रियमप्यमिथ्या ॥ ६ ॥ ननु 'वत्से, उत्तिष्ठ । असौ सानुजो भर्ता तवैव शुचिना वृत्तेन महत्कृच्छं दुःखं तीर्गस्तीर्णवान्' इति प्रियाहां तां वधू प्रियमप्यमिथ्या सत्यं ते श्वभ्वावूचतुः । उभयं दुर्वचमिति भावः॥ अन्धयः-ननु वत्से ! उत्तिष्ठ असौ सानुजः भर्ता तव एव शुचिना वृत्तेन महत् कृच्छं तीर्णः इति प्रियाहां तां प्रियम् अपि अमिथ्या ते उचतुः ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy