SearchBrowseAboutContactDonate
Page Preview
Page 1066
Loading...
Download File
Download File
Page Text
________________ १९२ रघुवंशे अन्वयः-यथाक्रमं प्रणतौ हतारी विक्रमशोभिनौ तौ उभौ उभाभ्याम् अस्रान्धतया विस्पष्टं न दृष्टौ ( किन्तु ) सुतस्पर्शसुखोपलम्भात् ज्ञातौ ।। व्याख्या-क्रममनतिक्रम्य यथाक्रम = क्रमानुरूपं स्वां स्वां मातरमित्यर्थः । प्रणतौ= कृतप्रणामौ हताः = मारिताः अरयः=शत्रवो याभ्यां तौ हतारी विक्रमेण - पराक्रमेण शोभते = शालेते इति तौ विक्रशोभिनौ तौ = प्रसिद्धौ उभौ रामलक्ष्मणौ, उभाभ्यां = मातृभ्यां कौसल्यसुमित्राग्याम् अः = अश्रुभिः अन्धे = दृष्टिहीने, इति अस्रान्धे, तयोः भावस्तत्ता तया अस्रान्धतया विस्पष्टं सुस्पष्टं न दृष्टौ= नावलोकितौ, किन्तु सुतयोः = पुत्रयोः स्पर्शः, इति सुतस्पर्शस्तेन, यत् सुखम् = आनन्दस्तस्य उपलम्भः = प्राप्तिः, अनुभवस्तस्मात् सुतस्पर्शसुखोपलम्भात् ज्ञातौ = विज्ञातौ। समासः-हताः अरयः याभ्यां तौ हतारी। क्रममनतिक्रम्य यथाक्रमम् । विशेषेण स्पष्टमिति विस्पष्टम् । अः अन्धे, असान्धे, तयोः भावः तत्ता तया अस्रान्धतया। सुतस्य स्पर्शः सुतस्पर्शः तेन यत्सुखं तस्य उपलम्भस्तस्मात् सुतस्पर्शसुखोपलम्भात् । विक्रमेण शोभिनौ विक्रमशोभिनौ। हिन्दी-शत्रुओं को मारने वाले पराक्रम से शोभायमान, और उचितरूप से ( पहले राम ने तब लक्ष्मण ने ) अपनी माता कौसल्या और सुमित्रा को प्रणाम करने वाले उन दोनों राम लक्ष्मण को, आँखों में आँसू भर जाने के कारण दोनों माताओं ने स्पष्ट रूप से न. देखा। किन्तु पुत्रों के स्पर्श ( छूने ) से जो परम सुख हुआ, उसकी अनुभूति से अपने पुत्रों को पहचाना। विशेष-चौदह वर्ष बाद पुत्रों को पाकर करुणा प्रेमावेग से वैधव्य के दुःखावेग से दोनों माताओं के नेत्र आँसुओं से भर गये थे, अतः नेत्रों से न देख सकी, किन्तु स्पर्शसुखानुभव से पहचान लिया कि राम लक्ष्मण ही हैं ॥ २ ॥ आनन्दजः शोकजमश्रु वाष्पस्तयोरशीतं शिशिरो बिभेद । गङ्गासरय्वोर्जलमुष्णतप्तं हिमाद्रिनिस्यन्द इवावतीर्णः ।। ३ ।। तयोर्मात्रोरानन्दजः शिशिरो बाष्पः शोकजमशोतमुष्णमश्रु । उष्णतप्तं ग्रीष्मतप्तं गङ्गासरखोर्जलं कर्म अवतीणों हिमाद्रनिरयन्दो निर्झर इव । बिभेद। आनन्देन शोकस्तिरस्कृत इत्यर्थः ॥ अन्वयः-तयोः आनन्दजः शिशिरः बाष्पः शोकजम् अशोतम् अश्रु, उष्णतप्तम् गंगासरवोः जलम् अवतीर्णः हिमाद्रिनिरयन्दः इव विभेद । व्याख्या-तयोः = मात्रोः= कौसल्यासुमित्रयोः आनन्दात् = सुखात् जातः= उत्पन्नः इति आनन्दजः शशति = गच्छति, वृक्षादिशोभा यस्मात् स शिशिरः= हिमः = शीतलः वाष्पः = अश्रु शोकात् जातं शोकजं = दुःखोत्पन्नम् न शीतमिति अशीतं तत् अशीतम् = उष्णम् अश्रु = अस्रम् कर्म, उष्णेन = धर्मेण, ग्रीष्मेण तप्तमिति उःणतप्तम् गंगा = भागीरथी च सरयूः = अयोध्यान्तिकवाहिनी चेति गंगासरखो तयोः गंगासरवोः जलम् कर्म, अवतीर्णः = भूमौ आगतः हन्ति ऊष्मा
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy