SearchBrowseAboutContactDonate
Page Preview
Page 1064
Loading...
Download File
Download File
Page Text
________________ रघुवंशे क्रोशाधं प्रकृतिपुरःसरेण गत्वा काकुत्स्थः स्तिमितजवेन पुष्पकेण । शत्रुघ्नप्रतिविहितोपका यंमार्यः साकेतोपवनमुदारमध्युवास ॥ ७९ ॥ आर्यः पूज्यः काकुत्स्थो रामः प्रकृतयः प्रजाः पुरःसयों यस्य तेन स्तिमितजवेन मन्दवेगेन पुष्पकेण । क्रोशोऽध्वपरिमाणविशेषः । क्रोशाध क्रोशैकदेशं गत्वा शत्रुघ्नेन प्रतिविहिताः सज्जिता उपकार्याः पटभवनानि यस्मिंस्तदुदारं महत्साकेतस्यायोध्याया उपवनमध्युवासाधितस्थौ । 'साकेतः स्यादयोध्यायां कोसलानन्दिनी तथा' इति यादवः ।। इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये दण्डकाप्रत्यागमनो नाम त्रयोदशः सर्गः । अन्धयः-आर्यः काकुत्स्थः प्रकृतिपुरःसरेण स्तिमितजवेन पुष्पकेण क्रोशाय गत्वा शत्रुघ्नप्रतिविहितोपकार्यम् उदारं साकेतोपवनम् अध्युवास । व्याख्या—आर्यः = कुलीनः, पूज्यः इत्यर्थः, 'महाकुलकुलीनार्यसभ्यः' इत्यमरः । ककुदि = वृषांसे तिष्ठतीति ककुत्स्थः, ककुत्स्थस्यापत्यं पुमान् काकुत्स्थः रामः, पुरः = अग्रे सरन्ति = गच्छन्तोति यास्ताः पुरःसर्यः, प्रकृतयः =जनाः पुरःसर्यः= अग्रगामिन्यः यस्य तत् तेन प्रकृतिपुरःसरेण स्तिमितः = मन्दः जवः= वेगः यस्य तत् तेन स्तिमितजवेन, पुष्पकेण = विमानेन क्रोशस्य =मार्गपरिमाणविशेषस्य अर्धः खण्डः, इति क्रोशार्धस्तं क्रोशाधं गत्वा, शत्रुन् हन्तीति शत्रुघ्नः, शत्रुघ्नेन - लक्ष्मणानुजेन प्रतिविहिताः सज्जीकृताः उपकार्याः =पटनिर्मितराजभवनानि यस्मिन् तत् शत्रुघ्नप्रतिविहितोपकार्य तत् । उदारं = विशालं सुन्दरञ्च, आकित्पते इति आकेतः, आकेतेन सहितः साकेतस्तस्य साकेतस्य - अयोध्यानगरस्य उपवनम् = आरामः, साकेतोपवनं तत् । अध्युवास = अधिष्ठितवान् तत्रोषितवानित्यर्थः । 'आरामः स्यादुपवनमि'त्यमरः । 'साकेतमयोध्यानगरमिति शब्दरत्नावली। समासः—क्रोशस्य अर्ध क्रोशार्धम् तत् । प्रकृतयः पुरःसर्यः यस्य तत्तेन प्रकृतिपुरःसरेण । स्तिमितः जवः यस्य तत्तेन स्तिमितजवेन । शत्रुघ्नेन प्रतिविहिताः उपकार्याः यस्मिन् तत् , शत्रुघ्नप्रतिविहितोपकार्य तत् । साकेतस्य उपवनं साकेतोपवनम् , तत् । हिन्दी-जिसके आगे-आगे प्रजा चल रही थी, और जिसका वेग ( चाल ) मन्द धीमा कर दिया था, ऐसे पुष्पकविमान से श्रेष्ठ पूज्य रामचन्द्रने आधा कोश चलकर अयोध्या नगरी के उस विशाल एवं सुन्दर उपवन ( बगीचे ) में निवास किया, जिसमें शत्रुघ्नजी ने शाही खेमे पहले से ही सजा रखे थे ।। ७९ ।। इति श्रीशांकरिधारादत्तशास्त्रिमिश्रविरचितायां "छात्रोपयोगिनी" व्याख्यायां रघुवंशे महाकाव्ये दण्डकाप्रत्यागमनो नाम त्रयोदशः सर्गः ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy