SearchBrowseAboutContactDonate
Page Preview
Page 1062
Loading...
Download File
Download File
Page Text
________________ रघुवंशे समासः-रघूणां पतिः रघुपतिः। अवरजैः सह सावरजः । विलसन्त्यः पताकाः यस्मिन् तत् विलसत्पताकं तत् । कामेन गतिः यस्य तत् कामगति । बुधश्च बृहस्पतिश्चेति बुधबृहस्पती ताभ्यां योगः, बुधबृहस्पतियोगस्तेन दृश्यः इति बुधबृहस्पतियोगदृश्यः। ताराणां पतिः तारापतिः । तरला विद्युत् यस्मिन् तत् तरलविद्युत् तत् । अभ्राणां वृन्दं तत् । हिन्दी-विभीषणादि के रथ में बैठ जाने पर रघुपति रामजी भी, भरत लक्ष्मण के साथ, ध्वजाओं से सजे हुए, तथा इच्छानुसार चलने वाले पुष्पक विमान पर फिर से उसी प्रकार चढ़ गए. जैसे कि बुध और बृहस्पति के साथ से विशेष सुन्दर ( देखने योग्य ) चन्द्रमा संन्ध्या समय रात में चञ्चल बिजली वाले मेघों के झुण्ड पर बैठता है। अर्थात् जिनमें बिजली चमकती हो ऐसे वादलों पर बैठता है ।। ७६ ।। तत्रेश्वरेण जगतां प्रलयादिवोर्वी वर्षात्ययेन रुचमभ्रघनादिवेन्दोः । रामेण मैथिलसुतां दशकण्ठकृछा. त्प्रत्युद्धतां तिमती भरतो ववन्दे ॥ ७७ ॥ तत्र विमाने । जगतामीश्वरेणादिवराहेण प्रलयादुर्वीमिव । वर्षात्ययेन शरदागमेनाभ्रघनान्मेघसंवातादिन्दो रुचं चन्द्रिकामिव । रामेण दशकण्ठ एव कृच्छं संकटं तस्मात्प्रत्युद्धृतां धृतिमती संतोषवती मैथिलसुतां सीतां भरतो ववन्दे । अन्वयः-तत्र जगताम् ईश्वरेण प्रलयात् उर्वीम् इव, वर्षात्ययेन अभ्रघनात् इन्दोः रुचम् इव, रामेण दशकण्ठकृच्छ्रात् प्रत्युद्धृतां धृतिमती मैथिलसुतां भरतः ववन्दे । पाख्या--तत्र तस्मिन् पुष्पकविमाने गच्छन्तीति जगन्ति, तेषां जगतां भुवनानाम् ईश्वरेण =स्वामिना = आदिवराहावतारेणेत्यर्थः प्रलीयतेऽत्र भूतानीति प्रलयस्तस्मात् प्रलयात्= संवर्तात् उवौं पृथिवीम् इव = यथा वर्षायाः=वृष्टे: अत्ययः=समाप्तिः तेन वर्षात्ययेन= शरदृतोरागमनेन अभ्राणां = मेघानां धनं =समूहस्तस्मात् अभ्रघनात् “संघे मुस्ते धनम्" इति हैमः । इन्दोः=चन्द्रस्य रुचम् =प्रभां चन्द्रिकामित्यर्थः। इव= यथा रामेण रामचन्द्रेण दश=दशसंख्यकाः कण्णः=गलाः यस्य स दशकण्ठः रावणः एव कृच्छं = कष्ट, व्यसनं तस्मात् दशकण्ठकृच्छ्रात् , रावणरूपव्यसनादित्यर्थः। प्रत्युद्धृतां=कृतोद्धारां धृतिः धैर्थमस्याः अस्तीति धृतिमती तां धृतिमती मैथिलस्य = राशो जनकस्य सुता = पुत्री तां मैथिलसुतां=जानकी भरतः ववन्दे= प्रणनाम, अवन्दत् । समासः-वर्षायाः अत्ययस्तेन वर्षात्ययेन। अभ्राणां धनं तस्मात् अभ्रवनात् । मैथिलस्य सुता तां मैथिलसुताम् । दश कण्ठाः यस्य स दशकण्ठः, दशकण्ठः एव कृच्छं तस्मात् दशकण्ठकृच्छ्रात् । हिन्दी-जिस प्रकार जगत् के नाथ वराहावतार विष्णु ने प्रलय से पृथिवी का उद्धार किया था, और वर्षा ऋतु की समाप्ति होने पर शरदृतु बादलों के समूह से चन्द्रमा की
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy