SearchBrowseAboutContactDonate
Page Preview
Page 1054
Loading...
Download File
Download File
Page Text
________________ १८० रघुवंशे भक्तिस्तया मदपेक्षया न भोक्ता, अभोक्ता सन् = अननुभवन् सन् इयन्ति = एतावन्ति वर्षाणि = वत्सरानू , चतुर्दशवर्षपर्यन्तमित्यर्थः । तया = श्रिया, स्त्रिया चेत्यपि व्यज्यते । सह =साकम् उग्रं = कठोरं दुष्करमित्यर्थः असतोति असिः = खगः, तस्य धारा इव यत् तत् असिधारं = खङ्गधारं नाम व्रतम् = अनुष्ठानम् अभ्यस्यति = वर्तयति इव = यथा । युवत्या सह शयानोऽपि युवा भोगरहितः इव भरतः चतुर्दशवर्ष यावत् स्वायत्तां राजलक्ष्मीमननुभवन् आसीदिति अत्यन्तमेव दुष्करं व्रतं कृतवानित्यर्थः। तदुक्तम् 'यत्रैकशयनस्थापि प्रमदा नोपभुज्यते । असिधाराव्रतं नाम वदन्ति मुनि पुंगवाः ॥ समासः-अंकम् गता ताम् अंकगताम् । मम अपेक्षा तया मदपेक्षया । न भोक्ता अभोक्ता । आसेः धारा असिधारा सेव यत् तत् असिधारम् । हिन्दी-भरत ने पिता की दी हुई, तथा अपने हाथ में रहती हुई भी राजलक्ष्मी का सामर्थ्य रहते भी मेरी भक्ति के कारण उपभोग नहीं किया, यह उसी प्रकार चौदह वर्ष तक तलवार की धार पर चलने के समान कठोर ( इन्द्रियों को वश में रखने का ) व्रत का पालन किया है। जिस प्रकार कि युवा पुरुष, कन्या के पिता को दी हुई एवं गोद में बैठी सुन्दर स्त्री का भोग न करके कठोर इन्द्रियनिग्रह करता है। विशेष--एक आसन पर अपने साथ बैठने सोने वाली स्त्री का जो युवा पुरुष भोग नहीं करता वह तलवार की धार पर चलना नामक व्रत, श्रेष्ठ मुनियों ने कहा है ॥ ६७ ॥ एतावदुक्तवति दाशरथौ तदीया मिच्छां विमानमधिदेवतया विदित्वा । ज्योतिष्पथादवततार सविस्मयाभि रुद्वीक्षितं प्रकृतिभिर्मरतानुगामिः ॥ ६८ ॥ दाशरथौ राम एतावदुक्तवति सति विमानं पुष्पकं कर्तृ. तदीयां रामसंबन्धिनीमिच्छामधिदेवतया मिषेण विदित्वा। तत्प्रेरितं सदित्यर्थः । सविस्मयाभिर्भरतानुगाभिः प्रकृतिभिः प्रजाभिरुद्वोक्षितं सज्ज्योतिष्पथादाकाशादवततार ॥ अन्वयः--दाशरथौ एतावत् उक्तवति सति विमानं ( कर्तृ ) तदीयाम् इच्छाम् अधिदेवतया विदित्वा सविस्मयाभिः भरतानुगाभिः प्रकृतिभिः उद्वीक्षितं सत् ज्योतिष्पथात् अवततार। व्याख्या-दशरथस्य अपत्यं पुमान् दाशरथिस्तस्मिन् दाशरथौ = श्रीरामचन्द्रे एतत्परिमाणमस्य तत् एतावत् = "वैदेहि पश्य" इत्यारभ्य पित्रा विसृष्टामित्यन्तं त्रयोदशसर्गस्थवर्णनम् उक्तवति = कथितवति सति विमानं = पुष्पकयानं कर्तृपदमिदम् तस्य = रामस्य इयं तदीया तां तदीयाम् इच्छाम् = अभिलाषाम् , देव एव देवता, अधिका देवता अधिदेवता तया अधिदेवतया = प्रधानतया रामेच्छा एव मुख्येति विदित्वा = ज्ञात्वा, रामचन्द्रेच्छया प्रेरितं सदित्यर्थः । विस्मयेन=आश्चर्यण युक्ताः सविस्मयास्ताभिः सविस्मयाभिः भरतम् अनुगच्छन्ति=अनुयान्तीति भरतानुगारताभिः भरतानुगामिः प्रकृतिभिः प्रजाभिः उत् ऊर्ध्वम् वीक्षितं- दृष्टमिति उद्वीक्षितं
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy