SearchBrowseAboutContactDonate
Page Preview
Page 1034
Loading...
Download File
Download File
Page Text
________________ १६० रघुवंशे व्याख्या-अन्तर्हितः=जलमध्यगतः यः सौधःप्रासादः इति अन्तर्हितसौधस्तं भजतीति अन्तर्हितसौधभाक् तस्य अन्तर्हितसौधभाजः। सुधा लेपोऽस्यास्तीति सौधः । तस्य = मुनेः शातकर्णेः अयं = श्रवणपथमागतः। मृत् अंगमस्य सः मृतात् = वेष्टनात् जातः, मुरं = वेष्टनं जातमस्येति वा । मृदंगः “मृदंगा मुरजाः” इत्यमरः। संगीतं = नृत्यगीतवाद्यं मृदंगः = मुरजश्चेति तयोः घोषः = ध्वनिः इति संगीतमृदंगघोषः । प्रसक्तः = संततः, व्याप्तः यः संगीतमृदंगवोषः, इति प्रसक्तसंगीतमृदंगघोषः वियति =आकाशे गतः = प्राप्तः वियद्गतः सन् चन्द्र इव शालते = शोभते, इति चन्द्रशाला = शिरोगृहम्, उच्चस्थानस्थितत्वात् तथात्वमित्यर्थः । पुष्पकस्य = व्योमयानस्य चन्द्रशालाः इति पुष्पकचन्द्रशालाः “चन्द्रशाला शिरोगृहमि"ति हैमः। क्षणं = मुहूर्त प्रतिश्रुद्भिः= प्रतिध्वानैः मुखराः = ध्वनन्तीः करोति = विदधाति । प्रति = प्रथमशब्दं लक्ष्यीकृत्य श्रूयते इति प्रतिश्रुत् । "स्त्री प्रतिश्रुत्प्रतिध्वाने" इत्यमरः। ___ समासः-अन्तर्हितः सौधः, अन्तहितसौधः । तं भजतति अन्तहितसौधभाक् तस्य अन्तहितसौधभाजः। संगीतश्च मृदंगश्च संगीतमृदंगौ, तयोः घोषः इति संगीतमृदंगघोषः, प्रसक्तः यः संगीतमृदंगघोषः प्रसक्तसंगीतमृदंगघोषः। वियति गतः वियद्गतः । पुष्पकस्य चन्द्रशालाः इति पुष्पकचन्द्रशालाः, ताः । प्रतिश्रुद्भिः मुखराः प्रतिश्रुन्मुखराः, ताः। हिन्दी-जल के भीतर बने भवन में रहने वाले, शातकर्णि ऋषि, के निरन्तर हो रहे नाच-गाने और मृदंग की यह झनकार है (सुन पड़ रही है ), जो कि आकाश में पुष्पक विमान की छतरी को प्रतिध्वनि से मुखरित कर रही है। अर्थात् ऋषि के भवन में हो रही संगीत की ध्वनि विमान से टकरा कर गूंज रही है ॥ ४० ॥ हविर्भजामेधवतां चतुर्णा मध्ये ललाटंतपसप्तसप्तिः । असौ तपस्यत्यपरस्तपस्वी नाम्ना सुतीक्ष्णश्चरितेन दान्तः ॥ ४१ ॥ नाम्ना सुतीक्ष्णः सुतीक्ष्णनामा चरितेन दान्तः सौम्योऽसावपरस्तपस्वी । एधवता मिन्धनवताम् । 'काष्ठं दार्विन्धनं त्वेधः' इत्यमरः। चतुणां हविर्भुजामग्नीनां मध्ये । ललाटं तपतीति ललाटंतपः सूर्यः। 'असूर्यललाटयोद्देशितपोः' इति खश्प्रत्ययः। 'अरु. षित-' इत्यादिना मुमागमः। ललाटंतपः सप्तसप्तिः सप्ताश्व : सृयों यस्य स तथोक्तः सन । तपस्यति । 'कर्मणो रोमन्थतपोभ्यां वर्ति चरोः' इति क्यङ् । 'तपसः परस्मैपदं च' इति वक्तव्यम् ॥ अन्वयः-नाम्ना सुतीक्ष्णः चरितेन दान्तः असौ अपरः तपस्वी, एधवताम् चतुर्णां हवि. र्भुजां मध्ये ललाटंतपसप्तसप्तिः तपस्यति । व्याख्या ---नम्यतेऽभिधीयतेऽथोंऽनेनेति नाम । तेन नाम्ना = नामधेयेन सुतीक्ष्णः = सुतीक्ष्णनामा, कठोररवभावोऽपीत्यर्थः चरितेन = चारित्रेण दान्तः = तपः क्लेशसहः, सौम्य इत्यर्थः असौ = दृश्यमानः अपरः = द्वितीयः तपस्वी = तापसः "तपस्वी तापसः पारिकांक्षी" इत्यमरः । एधः = इन्धनमरित येपां ते एधवन्तस्तेषाम् एधवताम् चतुणां = चतुःसंख्यकानां हवींषि भुञ्जते इति हविर्भुजस्तेषां हविर्भुजाम् = वह्नीनां मध्ये = अन्तरे सप्त सप्तयः = अश्वाः यस्य स सप्तसप्तिः ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy