SearchBrowseAboutContactDonate
Page Preview
Page 1028
Loading...
Download File
Download File
Page Text
________________ १५४ रघुवंशे व्याख्या-स्तनवत् = कुचवत् अभिरामौ = मनोहरौ यो स्तबकौ = पुष्पगुच्छौ ताभ्याम् अभिनम्रा = विनता, तां स्तनाभिरामस्तबकाभिनम्राम् । “पुष्पादिस्तबके गुच्छ” इति रन्तिदेवः । तन्वीं = कृशां सुकुमारीमित्यर्थः । इमाम् = पुरोवर्तिनीम् तटस्य = तीरस्य अशोकः = वञ्जुलः तस्य लता =शाखा तां तटाशोकलताम् तव = सीतायाः प्राप्तिः = अवाप्तिः, इति त्वत्प्राप्तिरतस्याः बुद्धिः = ज्ञानम्, भ्रमात्मकमित्यर्थः । तया त्वत्प्राप्तिबुद्धया त्वमेव मिलितेति भ्रमेण परिरब्धुम् = आलिंगितुं कामः = इच्छा यस्य स परिरब्धुकामःअश्रुभिः = अस्त्रैः सहितः साश्रुः = अश्रु. पूर्णनेत्रः = अहं = रामः सौमित्रिणा = लक्ष्मणेन निषिद्धः = निवारितः । नेयं सीता किन्तु लतेयमिति निवारिता इत्यर्थः। “वञ्जलोऽशोके" इत्यमरः । समासः--स्तनवत् अभिरामौ यौ स्तबको ताभ्याम् अभिनम्रा तां स्तनाभिरामस्तबकाभिनम्राम् । तटस्य अशोकः तटाशोकस्तस्य लता तां तटाशोकलताम् । तत्र प्राप्तिस्त्वत्प्राप्तिस्तस्याः बुद्धिस्तया त्वत्प्राप्तिवुद्धया। परिरब्धं कामः यस्य स परिरब्धुकामः। हिन्दी-कुचों के समान सुन्दर फूलों के गुच्छों ( गुलदस्तों ) से आगे को झुको हुई, इस पतली, तीर के अशोक की लता को (ही ) तुम्हारे मिल जाने की बुद्धि से ( भ्रम से ) मैं उसे आलिंगन करना चाहता था, किन्तु इसी बीच लक्ष्मण ने रोते हुए मुझे रोक दिया था । अर्थात् इस लता को देखकर ऐसा लगा कि मानों तुम ही खड़ी हो, अतः आलिंगन करना ही चाहता था कि 'यह सीता नहीं है' लता है, कहकर लक्ष्मण ने मुझे रोक दिया था। यह सब तुम्हारे प्रेम में विह्वल होने के कारण था ॥ ३२ ॥ अमूर्विमानान्तरलम्बिनीनां श्रुत्वा स्वनं काञ्चनकिङ्किणीनाम् । प्रत्युद्वजन्तीद खमुत्पततन्त्यो गोदावरीसारसपङ्क्तयस्त्वाम् ॥ ३३ ॥ विमानस्यान्तरेष्ववकाशेषु लम्बन्ते यास्तासां काञ्चनकिङ्किणीनां स्वनं श्रुत्वा स्वयूथशब्दभ्रमात्खमाकाशमुत्पतन्त्योऽमूर्गोदावरीसारसपङ्क्तयस्त्वां प्रत्युव्रजन्तीव ॥ अन्वयः-विमानान्तरलम्बिनीनां काञ्चनकिंकिणीनां स्वनं श्रुत्वा, खम् उत्पतन्त्यः गोदावरीसारसपंक्तयः त्वां प्रत्यदव्रजन्ति इव । व्याख्या-विमानस्य = पुष्पकस्य अन्तराणि = अवकाशभागाः तेषु लम्बिन्यः = दोलायमानाः यास्ताः विमानान्तरलम्बिन्यः, तासां विमानान्तरलम्बिनीनाम् । काञ्चनस्य = सुवर्णस्य किंकिण्यः = क्षुद्रघण्टिकारतासां काञ्चनकिंकिणीनाम् स्वनं = शब्दं श्रुत्वा = आकर्ण्य सारसयूथशब्दभ्रमात् खम् = आकाशम् उत्पतन्त्यः = उद्गच्छन्त्यः गां == जलं, स्वर्ग वा ददातीति गोदा = नदी। गोदासु वरा = श्रेष्ठा इति गोदावरी, सरसि भवाः सारसाः। गोदावर्याः सारसाः= पुष्कराह्वयाः पक्षिविशेषाः तेषां पंक्तयः= श्रेणयः, गोदावरीसारसपंक्तयः त्वां =सीतां प्रति = सम्मुखे उबजन्ति = उद्गच्छन्ति इव = यथा । तब संमानार्थमित्यर्थः ॥ समासः-विमानस्य अन्तराणि विमानान्तराणि तेषु लम्बिन्यः तासां विमानान्तरलम्बि
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy