SearchBrowseAboutContactDonate
Page Preview
Page 1026
Loading...
Download File
Download File
Page Text
________________ १५२ रघुवंशे समासः-विभिन्नाः कोशाः येषां तानि तैः विभिन्नकोशैः । नवानि कन्दलानि नवकन्दलानि तैः नवकन्दलैः। आसारेण सिक्ता या क्षितिस्तस्याः वाष्पम् तरय योगः तस्मात् आसारसिक्तक्षितिवाष्पयोगात् । विवाहस्य धूमः विवाहधूमस्तेन अरुणा या लोचनयोः श्रीः, इति विवाहधूमारुणलोचनश्रीः । हिन्दी-मुसलाधार वर्षा से भीगी हुई, पृथिवी से निकले भाप के संयोग से, भूमिकदली को खिली ( कुकुरमुत्ते के खिले फूल ) कलियों से अनुकरण की गई ( ऐसी) विवाह के समय हवन का धुवाँ लगने से लाल २ तुम्हारे नेत्रों की शोभा ने मुझे बड़ी पीड़ा दो थी । अर्थात् पृथिवी की भांप से खिले भूमि कदली के कुल २ लाल फूलों को देखकर विवाह के समय धूएँ से लाल लाल तुम्हारी आँखों की शोभा मुझे रमरण हो आई थी, तब मुझे बड़ा दुःख हुआ था इसी शिखर पर ॥ २९ ॥ उपान्तवानोरवनोपगूढान्यालक्ष्यपारिप्लवसारसानि । दूरावतीर्णा पिबतीब खेदादमूनि पम्पासलिलानि दृष्टिः ॥ ३० ॥ उपान्तवानीरदनोपगूढानि पार्श्वव लवनच्छन्नान्यालक्ष्या ईषदृश्याः पारिलवाश्चंचलाः सारसाः येषु तान्यमूनि पम्पासलिलानि पम्पासरोजलानि दूरादवतीर्णा मे दृष्टिरत एव खेदारिपबतीव । न विहातुमुत्सहत इत्यर्थः ॥ अन्वयः-उपान्तवानीरवनोपगूढानि आलक्ष्यपारिप्लवसारसानि अमूनि पम्पासलिलानि दूरावतीर्णा मे दृष्टिः अत एव खेदात् पिबति इव । व्याख्या-उपान्ते = पार्श्वे वानीराणां = वजुलानां वनानि = अरण्यानि तैः उपगूढानि = आच्छन्नानि, इति उपान्तवानीरवनोपगूढानि ( वां शुष्कम् आसमन्तात् नीरमस्य स वानीरः )। आलक्ष्याः = ईषदृश्याः पारिप्लवाः= चन्चलाः सारसाः= हंसाः येषु तानि आलक्ष्यपारिप्लवसारसानि । “पारि लवश्चाबुले रयाच्चंचले च” इति मेदिनी। अमूनि = पुरोवतीनि पाति = रक्षति महार्यादीन् , इति पम्पा । पम्पायाः = पम्पानामकसरोवरस्य सलिलानि = जलानि, इति पम्पासलिलानि दूरात् = अत्युन्नतात् अवतीर्णा = गता दूरावतीर्णा मे=रामस्य दृष्टिः = नेत्रम् अत एव खेदात् पिबति इव = यथा, अतितृष्णया पश्यतीव । त्यक्तुं नोत्सहते इति भावः । समासः-उपान्तयोः यानि वानीराणां वनानि उपान्तवानीरवनानि तैः उपगूढानि, इति उपान्तवानीरवनोपगूढानि तानि । आलक्ष्याः पारिप्लवाः सारसाः येषु तानि आलक्ष्यपारिप्लवसारसानि, तानि । पम्पायाः सलिलानि पम्पासलिलानि तानि । दूरात् अवतीर्णा दूरावतीर्णा । हिन्दी-तटों ( किनारों ) पर खड़े बेत के वनों से ढंके हुए, अतएव जरा-जरा दीख पड़ रहे हैं चञ्चल हंस जिनमें, ऐसे इन पम्पा नामक सरोवर के जलों को मेरी दृष्टि दूरसे पड़ने के कारण मानो खेद से उन्हें पी रही है। अर्थात् इन्हें देखता ही रहूँ ऐसा मेरा मन कर रहा है ॥ ३०॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy