SearchBrowseAboutContactDonate
Page Preview
Page 1020
Loading...
Download File
Download File
Page Text
________________ १४६ रघुवंशे करेण वातायनलम्बितेन स्पृष्टस्त्वया चण्डि कुतूहलिन्या । आमुञ्चतीवाभरणं द्वितीयमुद्भिनविद्युद्वलयो घनस्ते ॥ २१ ॥ हे चण्डि कोपने। 'चण्डस्त्वत्यन्तकोपनः' इत्यमरः। कुतूहलिन्या विनोदार्थिन्या त्वया का वातायने गवाक्षे लम्बितेनावत्रंसितेन करेण स्पृष्ट उद्भिन्नविद्युद्वलयो घनस्ते द्वितीयमाभरणं वलयमामुञ्चतीवार्पयतोव। चण्डीत्यनेन कोपनशीलत्वाद्भीतः क्षिप्रं त्वां मुञ्चति मेघ इति व्यज्यते ॥ अन्वयः-हे चण्डि ! कुतूहलिन्या त्वया वातायनलम्बितेन करेण स्पृष्टः उद्भिन्नविद्युद्वलयः घनः ते द्वितीयम् आभरणम् आमुञ्चति इव । ___ व्याख्या-हे चण्डि = अतिकोपने ! कुतूं = चमर्मयं स्नेहपात्रं हलति = लिखतीति कुतूहलं तदस्याः अस्तीति कुतूहलिनी तया कुतूहलिन्या= विनोदार्थिन्या, कौतुकवत्या त्वया =सीतया ( का ) ईयतेऽनेनेति अयनं मार्गः वातरय = वायोः अयनमिति वातायनं = गवाक्षः। वातायने अम्बितः = अवस्त्रंसितः तेन वातायनलम्बितेन करेण = हस्तेन स्पृष्टः = जातस्पर्शः उद्भिन्नं = यतं = विकसितं विद्युत् = सौदमिनी एव वलयं = कंकणं येन स उद्भिन्नविद्युद्वलयः घनः = मेघः ते = तव द्वितीयम् = अपरं, विशुद्र्पमित्यर्थः आभरणं = वलयम् आमुञ्चति = अर्पयति इवः = उत्प्रेक्षायाम् । “वलयः कण्ठरोगे ना कंकगे पुनपुंसकमि"ति मेदिनी ॥ ___ समासः-वातस्य अयनं वातायनं, वातायने लम्बितः वातायनलम्बितस्तेन वातायनलम्बितेन। उद्भिन्नं विद्युत् एव वलयं यस्य स उद्भिन्नवियुद्वलयः। हिन्दी-हे क्रोधी स्वभाव वाली, खिलवाड़ से तुम, विमान की खिड़की से बाहर लटकते हुए हाथ से जब बादल को छू लेती हो तो वह बादल "तुम्हारे हाथ के चारों ओर" बिजली चमका देता है। उस समय ऐसा जान पड़ता है मानो बादल तुम्हारे हाथ में दूसरा कंकण ( सोने का जेवर ) पहना रहा है। विशेष-सीताजी को चण्डि संबोधन करने का भाव यह है कि-हे सीते! तुम्हें क्रोधी जानकर मेघ, भय से तुम्हारा हाथ तुरन्त छोड़ देगा ॥ २१ ॥ अमी जनस्थानमपोढविघ्नं मत्वा समारब्धनवोटजानि । अभ्यासते चीरभृतो यथास्वं चिरोज्झितान्याश्रममण्डलानि ॥ २२ ॥ अमी चीरभृतरतापसा जनरथानमपोढविमपारतविघ्नं मत्वा ज्ञात्वा समारब्धा नवा उटजाः पर्णशाला येषु तानि । 'पर्णशालोटजोऽस्त्रियाम्' इत्यमरः। चिरोज्झितानि । राक्षसभयादित्यर्थः । आश्रममण्डलान्याश्रमविभागान्यथास्वं स्वं स्वमनतिक्रम्याध्यासतेऽधितिष्ठन्ति ॥ अन्वयः-अमी चीरभृतः जनस्थानम् अपोढविघ्नं मत्वा, समारब्धनवोटजानि चिरोझितानि आश्रममण्डलानि यथास्वम् अध्यासते।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy