SearchBrowseAboutContactDonate
Page Preview
Page 1017
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः सर्गः १४३ बद्धा तृष्णा यस्य स तं बिम्बाधरबद्धतृष्णम् । मण्डनेन कालस्य हानिरिति मण्डनकालहानिस्तस्याः मण्डनकालहानेः । न क्षमः अक्षमस्तम् अक्षमम् । हिन्दी-हे विशाललोचने सीते ! सागर तट का वायु, केवडे के पराग ( पुष्परेणु ) से तुम्हारे मुख को अलंकृत कर रहा है। "मानो इसने मुझे जान लिया है कि-" तुम्हारे अधर पान का लोभी ( उतावला ) मैं श्रृंगार करने में लगने वाले विलम्ब को सहन नहीं कर सकता ।। १६ ।। एते वयं सैकतभिन्नशुक्तिपर्यस्तमुक्तापटलं पयोधेः । प्राप्ता मुहूर्तेन विमानवेगात्कूलं फलावर्जितपूगमालम् ॥ १७ ॥ एते वयं सैकतेषु भिन्नाभिः स्फुटिताभिः शुक्तिभिः पर्यस्तानि परितः क्षिप्तानि मुक्तानां पटलानि यस्मिंस्तत्तथोक्तं फलैरावर्जिता आनमिताः पूगमाला यस्मिंस्तत्पयोधेः कूलं विमानवेगान्मुहूर्तेन प्राप्ताः ।। __अन्वयः-एते वयं सैकतभिन्नशुक्तिपर्यस्तमुक्तापटलं, फलावर्जितपूगमालं पयोधेः कूलं विमानवेगात् मुहूर्तेन प्राप्ताः। ___ व्याख्या-एते वयं = पुष्पकविमाने समुपविष्टाः रामादयः सिकताः सन्ति येषु तानि सैकतानि तेषु सैकतेषु = वालुकामयतटेषु भिन्नाः = स्फुटिताः शुक्तयः=मुक्तास्फोटाः, ताभिः पर्यस्तानि = सर्वतः क्षिप्तानि मुक्तानां = रत्नविशेषाणां पटलानि = समूहाः यस्मिन् तत् सैकतभिन्नशुक्तिपर्यस्तमुक्तापटलं “मुक्तास्फोटः स्त्रियां शुक्तिः” इत्यमरः । पवते, पुनाति वा पूगः । फलैः= पूगफलैः आवर्जिताः आनमिताः पूगानां = क्रमुकाणां मालाः श्रेणयः यस्मिन् तत् फलावर्जितपूगमालं "घोण्टा तु क्रमुकः पूगः" इत्यमरः । पयोधेः समुद्रस्य कूलं = तीरं विमानस्य = व्योमयानस्य वेगः = जवस्तस्मात् विमानवेगात् मुहूर्तेन = द्वादशक्षणेन प्राप्ताः= आगताः । समासः-भिन्नाश्च ताः शुक्तयः भिन्नशक्तयः। सैकतेषु भिन्नशुक्तिभिः पर्यस्तानि मुक्तानां पटलानि यस्मिन् तत्तथोक्तम् । पूगानां मालाः पूगमालाः, फलैः आवर्जिताः पूगमालाः यस्मिन् तत् फलावर्जितपूगमालम् । विमानस्य वेगः विमानवेगस्तस्मात् विमानवेगात् । हिन्दी-“हे सोते देखो" हम सब, विमान के वेग से चलने के कारण क्षणभर में ही सागर के इस किनारे पर आ पहुचे हैं। जहाँ कि बालू पर फूटी हुई सीपों से निकले मोती बिखरे पड़े हैं और फलों के भार से सुपारी के वृक्षों की श्रेणी झुकी हुई है ।। १७ ॥ कुरुष्व तावत्करभोरु पश्चान्मार्गे मृगप्रेक्षिणि दृष्टिपातम् । एषा विदूरीभवतः समुद्रात्सकानना निष्पततीव भूमिः ॥ १८ ॥ 'मणिबन्धादाकनिष्ठं करस्य करभो बहिः' इत्यमरः। करभ इवोरू यस्याः सा करभोरूः । 'ऊरूत्तरपदादौपम्ये' इत्यूङ् । तस्याः संबुद्धिहें करभोरु । मृगवत्प्रेक्षत इति विग्रहः, हे मृगप्रेक्षिणि, तावत्पश्चान्मार्गे लङ्घिताध्वनि दृष्टिपातं कुरुष्व । एषा सकानना भूमिर्विदूरीभवतः समुद्रानिष्पतति निष्क्रामतीव । विदूरशब्दाद्विशेष्यनिघ्नाच्च्विः ।।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy