SearchBrowseAboutContactDonate
Page Preview
Page 1014
Loading...
Download File
Download File
Page Text
________________ १४० रघुवंशे किरणास्तेषां सम्पर्कः = संसर्गस्तेन समृद्धः = प्रवृद्धः रागः = कान्तिः येषां ते तैः सूर्याशुसंपर्कसमृद्धरागैः, फणेषु तिष्ठन्तीति फणस्थास्तैः फणस्थैः "स्फटायां तु फणा द्वयोः' इत्यमरः । सर्पशिरस्थैरित्यर्थः । मणिभिः रत्नैः “रत्नं मणियोः" इत्यमरः। व्यज्यन्ते = व्यक्ता भवन्ति. शायन्ते । समासः-वेलायाः अनिलस्तस्मै वेलानिलाय ( वेलानिलं पातुमिति “क्रियार्थोपपद" इत्यादिना चतुर्थो)। महान्तश्च ते ऊर्मयः महोर्मयः। महोर्माणां विस्फँजथुः, तस्मात् निर्गतः विशेषः येषां ते महोमिविस्फूर्जथुनिर्विशेषाः । सूर्यस्य अंशवः सूर्यांशवस्तेषां संपर्कस्तेन समृद्धः रागः येषां ते तैः सूर्यांशुसपर्कसमृद्धरागैः । हिन्दी-सागर तट का वायु पीने के लिये, जल से बाहर निकले हुए, जो बड़ी तरंगों के उठने के समान दीख रहे हैं ये सांप हैं, जो कि सूर्य की किरणों के लगने से चमकने वाली, अपनी शिर की मणियों से पहचाने जा रहे हैं। _ विशेष—सांप वायु खाता है। अतः सागर के बड़े-बड़े सांप वायु पीने के लिये तट पर पड़े हैं, जो कि तरंगों से लग रहे हैं । किन्तु जब सूर्यकिरणों से इनकी मस्तकमणियां चमकती हैं तो सांप मालुम पड़ते हैं ॥ १२ ॥ तवाधरस्पर्धिषु विद्रुमेषु पर्यस्तमेतत्सहसोर्मिवेगात् । ऊङ्किरप्रोतमुखं कथंचित्क्लेशादपक्रामति शङ्खयूथम् ॥ १३ ॥ तवाधरस्पर्धिषु । अधरसदृशेष्वित्यर्थः । विद्रुमेषु प्रवालेषु सहसोमिवेगात्पर्यस्तं प्रोरिक्षप्तमूर्खाङ्करविंद्रुमप्ररोहैः प्रोतमुखं स्यूतवदनमेत च्छङ्खानां यूथं वृन्दं कथंचित्क्लेशादपक्रामति । विलम्ब्यापसरतीत्यर्थः ॥ अन्वयः-तव अधरस्पर्धिषु विद्रुमेषु सहसा ऊर्मिवेगात् पर्यस्तम् ऊर्खाकुरप्रोतमुखं शंखयूथं कथंचित् क्लेशात् अपक्रामति । व्याख्या-तव = भवत्याः, सीताया इत्यर्थः। अधरम् = ओष्ठं स्पर्धितुं शीलं येषां ते अधरस्पर्धिनस्तेषु अधरस्पर्धिषु सीताधरसदृशेषु, इत्यर्थः। विशिष्टाः द्रुमाः विद्रुमाः, विशिष्टेऽद्रौ भवा वा विद्रुमास्तेषु विद्रुमेषु =प्रवालेषु “अथ विद्रुमः पुंसि प्रवालं पुनपुसकमि"त्यमरः । सहसा झटिति ऊर्माणां = तरंगाणां वेगः =जवस्तस्मात् ऊर्मिवेगात् पर्यस्तं = प्रोत्क्षिप्तम् ऊर्ध्वाकरैः = प्रवालप्ररोहै: प्रोतं = स्यूतं मुखम् =आननं यस्य तत् ऊर्वांकुरप्रोतमुखम् , एतत् = पुरोवर्ति शं सुखं खनति =जनयतीति शंखः शंखानां = कम्बूनां यूथं = वृन्दमिति शंखधूथम् कथंचित् = केनापि प्रकारेण क्लेशात् = कष्टात् अपक्रामति = अपगच्छति विलम्बनापसरतीत्यर्थः।। समासः-अधरस्य स्पर्धिनः, अधरस्पर्धिनस्तेषु अधरस्पर्धिषु। ऊोणां वेगः, तस्मात् ऊर्मिवेगात् । ऊवांकुरैः प्रोतं मुखं यस्य तत् ऊर्जाकुरप्रोतमुखम् । शंखानां यूथमिति शंखयूथम् । हिन्दी-हे सीते ! देखो तुम्हारे होठ से होड करने वाले, अर्थात् तुम्हारे अधर के समान लाल लाल मूंगों के ऊपर लहरों के वेग से अचानक फेंके गए, तथा मूंगों के अंकुरों
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy