SearchBrowseAboutContactDonate
Page Preview
Page 1011
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः सर्गः १३७ अन्येषां पुंसां सामान्या साधारणा न भवतीत्यनन्यसामान्या कलत्रेषु वृत्तिभोगरूपा यस्य स तथोक्तः। इममेवाएं प्रतिपादयति-तरंग एवाधरस्तस्य दाने समर्पणे दक्षश्चतुरोऽसौ समुद्रो मुखार्पणेषु प्रकृत्या सख्यादिप्रेषणं विना प्रगल्भा धृष्टाः सिन्धूनदीः। 'सिन्धुः समुद्रे नद्यां च' इति विश्व:। स्वयं पिबति पाययते च । तरंगाधरमिति शेषः। 'न पादम्याङयमा-' इत्यादिना पिबतेय॑न्तान्नित्यं परस्मैपदनिषेधः । 'गतिबुद्धि प्रत्यवसानार्थ-' इत्यादिना सिन्धूनां कर्मत्वम् । दंपत्योर्युगपत्परस्पराधरपानमनन्यसाधारणमिति भावः ॥ अन्वयः-अनन्यसामान्यकलत्रवृत्तिः तरंगाधरदानदक्षः असौ, मुखार्पणेष प्रकृतिप्रगल्भाः सिन्धूः स्वयं पिबति, पाययते च । व्याख्या--अन्येषां सामान्या, अन्यसामान्या, अन्यसामान्या = सर्वसाधारणी न भवतीतिअनन्यसामान्या = सर्वातिशायिनी कलत्रेष = पत्नीषु वृत्तिः =भोगरूपा यस्य सः अनन्यसामान्यकलत्रवृत्तिः । सर्वजनापेक्षया विशिष्टव्यवहारवानित्यर्थः। तरंगः=वीचिः एव अधरः = ओष्ट इति तरंगाधर स्तस्य दानं = समर्पणं चुम्बनार्थमित्यर्थः । तत्र दक्षः= चतुरः, इति तरंगाधरदानदक्षः असौ = समुद्रः, मुखानाम् = स्वाननानाम् अर्पणानि = दानानि तेषु प्रकृत्या = स्वभावेन प्रगल्भाः = प्रतिभान्विताः ताः । धृष्टा इत्यर्थः। चुम्बनार्थ स्वकीयमुखं दातुं दूतीप्रेषणं विनैव चतुरा इत्यर्थः । “प्रगल्भः प्रतिभान्वितः" इत्यमरः । “भंगस्तरंग ऊर्मिळ स्त्रियां वीचिरि" त्यमरः । स्यन्दन्ते आपः यत्र ताः सिन्धवस्ताः सिन्धूः = नदीः स्वयं = स्वात्मना पिबति = नदीनामधरपानं करोति चुम्बतीत्यर्थः । पाययते = तरंगाधरपानं कुर्वतीः सिन्धूः पातुं प्रेरयति, च = समुच्चये। __ समासः- अन्येषां सामान्या न भवतीति अनन्यसामान्या। अनन्यसामान्या कलत्रेषु वृतिर्यस्य सोऽनन्यसामान्यकलत्रवृत्तिः। तरंग एवाधरस्तरंगाधरः, तरंगाधरस्य दानं तत्र दक्षः इति तरंगाधरदानदक्षः। मुखानाम् अर्पणानि मुखार्पणानि तेषु मुखार्पणेषु। प्रकृत्या प्रगल्भाः प्रकृतिप्रगल्भास्ताः प्रकृतिप्रगल्भाः। ____ हिन्दी-“हे सीते ! देखो" यह दूसरे पुरुषों की अपेक्षा अपनी स्त्रियों के विषय में भोगरूपी विशेष व्यवहार वाला है। इसलिये कि अपना तरंगरूपी अधर देने में बड़ा ही चतुर यह समुद्र, अपने मुख का अर्पण करने में ( चुम्बन देने में ) स्वभाव से ही ढीठ नदियों का खयं पान करता है और उन्हें भी पान कराता है। विशेष-नदियां जब चुम्बन के लिये अपना मुख इसे सौंपती है तब यह उनका अधर पान करता है और तरंगरूपी अपना अधर उन्हें पान कराता है। अर्थात् दूसरे लोग अपना अधर पान नहीं कराते हैं किन्तु यह अपनी पत्नियों को अपना चुम्बन देता है। यही विशेषता है ॥ ९॥ ससत्त्वमादाय नदीमुखाम्भः संमीलयन्तो विवृताननत्वात् । अमी शिरोभिस्तिमयः सरन्धैरूवं वितन्वन्ति जलप्रवाहान् ॥ १० ॥ अभी तिमयो मत्स्यविशेषाः। तदुक्तम्-'अस्ति मत्स्यस्तिमि म शतयोजनमायतः' इति ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy