SearchBrowseAboutContactDonate
Page Preview
Page 1009
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः सर्गः दधाति इति धाता तेन धात्रा=ब्रह्मणा दक्षादोनामपि जनकेन पितामहेनेत्यर्थः। सम्यक् स्तूयते इति संस्तूयमानःजेगीयमानः सन् अमुं=समुद्रम् अधिशेते = खपिति । अमुष्मिन् सागरे विष्णुः शयनं करोति प्रलयकालेऽपि समुद्र स्तिष्ठतीति भावः । समासः-युगानामन्तः युगान्तः। युगान्ते उचिता योग एव निद्रा इव निद्रा यस्य स युगान्तोचितयोगनिद्रः। नाभौ प्ररूढं यत् अम्बुरुहमिति नाभिप्ररूढाम्बुरुहं तत् आसनं यस्य स तेन नाभिप्ररूढाम्बुरुहासनेन । हिन्दी--प्रलय काल में परिचित ( अभ्यस्त ) योग ( समाधि ) रूपी निद्रा वाले आदि पुरुष विष्णु भगवान् , तीनों लोक का संहार करके ( तीनों लोकों को अपनी कुक्षि में इकट्ठा करके ) इसी समुद्र में सोते हैं। "और उस समय, इनकी" नाभि से निकले हुए कमल से उत्पन्न होने वाले, तथा दक्षप्रजापति को पैदा करने वाले पितामह ब्रह्माजी इनकी स्तुति करते रहते हैं । अर्थात् यह सागर प्रलयकाल में भी नष्ट नहीं होता है। विशेष-भगवान विष्णु की नाभिकमल से ब्रह्माजी उत्पन्न होते हैं और ब्रह्माजी ने दक्ष प्रजापति को उत्पन्न किया, इसी से इन्हें प्रथम धाता, पितामह कहा है ।। ६ ।। पक्षच्छिदा ग त्रभिदात्तगन्धाः शरण्यमेनं शतशो महीध्राः। नृपा इवोपप्लविनः परेभ्यो धर्मोत्तरं मध्यममाश्रयन्ते ॥ ७ ॥ __पक्षच्छिदा गोत्रभिदेन्द्रेण। उभयत्र 'सत्सूद्विष-' इत्यादिना क्विप् । आत्तगन्धा हृतगर्वाः। अभिभूता इत्यर्थः। 'गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः' इति विश्वः। 'आत्तगन्धोऽभिभूतः स्यात्' इत्यमरः। महीं धारयन्तीति महीधाः पर्वताः । मूलविभुजादित्वात्कप्रत्ययः । शतं शतं शतशः शरण्यं रक्षणसमर्थमेनं समुद्रम् । परेभ्यः शत्रुभ्य उपलविनो भयवन्तो नृपा धर्मोत्तरं धर्मप्रधानं मध्यमं मध्यमभूपालमिव । आश्रयन्ते। 'अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः' इति कामन्दकः । आर्तबन्धुरिति भावः। अन्वयः-पक्षच्छिदा गोत्रभिदा आत्तगन्धाः महीध्राः शतशः शरण्यम् एनम् , परेभ्य उपलविनः नृपाः धर्मोत्तरं मध्यमम् इव आश्रयन्ते। व्याख्या-पक्षान् = गरुतः = पत्त्राणि छिनत्ति = कर्तयतीति पक्षच्छिद् तेन पक्षच्छिदा गोत्रान् = पर्वतान् भिनत्तीति गोत्रभित्। तेन गोत्रभिदा = इन्द्रेण "अद्रिगोत्रगिरिग्रावाचल." इत्यमरः। आत्तः= हृतः गन्धः= गर्वः येषां ते आत्तगन्धाः = अभिभूताः, "आत्तगन्धोऽभिभूतः स्यात्" इत्यमरः। महीं = पृथिवीं धरन्तीति महीधाः = पर्वताः शतं शतमिति शतशः= अनेकशः शरणे साधुः शरण्यस्तं शरण्यं =रक्षकम् एनं सागरं परेभ्यः शत्रुभ्यः उपप्लवः = विघ्नः, भयं वा अस्ति येषान्ते उपप्लविनः नृपाः=भूपालाः धर्मः = सुकृतम् उत्तरः = प्रधानं यस्य स धमोत्तरस्तं धर्मोत्तरं = धर्मप्रधानं, न्यायप्रियमित्यर्थः। मध्ये भवः मध्यमस्तं मध्यमम् , शत्रुवि. जिगीष्वोः मध्यभवमित्यर्थः। राजानमाश्रयन्ते = आश्रिता भवन्ति । इन्द्रेण पर्वतानां पक्षच्छेदनसमये बहवः पर्वता अत्र सागरमाश्रिता अनेन रक्षिताश्चेति शरणागतरक्षकोऽयमिति भावः ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy