SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ८] बलिकर्मविधानम् बलिकर्मविधानस बलिकर्मविधिं वक्ष्ये शास्त्रे संक्षिप्यतेऽधुना । प्रामादीनां च सर्वेषां विन्यासार्थं बलिं चिपेत् ॥ १ ॥ वास्तुशुद्धिं ततः कृत्वा देवतार्थ पदं न्यसेत् । मण्डूकपदमेवापि परमशाधिकमेव वा ॥ २॥ ब्रह्मादिदेवतानां च राक्षसानां बलिं चिपेत् । कृतोपवासः स्थपतिः शुद्धदेहः प्रसन्नधीः ॥ ३ ॥ उत्कृष्टवेषो बल्यर्थ रात्रौ द्रव्यान् (णि) समाहरेत् । प्रभाते दिवसे द्रव्याने (ये) कैकाने (न्ये) ककन्यकः ॥ ४॥ अथवा गणिकाहस्ते पात्रे स्वर्णादिकान्धृता [न]। स्थपतिश्चैकपात्रेण धारयेद्वाम के करे ।। ५ । द्रव्याणि क्षिप्य (प्त्वा) दद्यात्त्वसव्यहस्तेन मन्त्रवित् । सकलीकरणं कृत्वा पुण्याहं वाचयेत्ततः ॥ ६ ॥ सर्वमङ्गलाश्व बलिं दत्वा यथाक्रमात् (क्रमम्) । तत्तन्नाम्नैश्च ( नाच) देवानामोङ्कारादिनमान्तकम् ॥ ७ ॥ मन्त्रमेतत् (तम्) समुच्चार्य ब्रह्मादिभ्यो बलिं हरेत् । देवालार्थ सामान्यं प्रामार्थ तु विशेषकम् ॥ ८ ॥ दध्योदनं च सर्व तत्सामान्यं च बलिं विदुः । ब्रह्मादीनां च देवानां धूपदीपा क्षतैरपि ॥ ६ ॥ अथ वक्ष्ये विशेषाख्यं बलिं शास्त्रोक्तवत्क्रमान् । स्रग्गन्धधूपदुग्धं च मध्वाज्यं पायसमो (सौ) दनम् ॥ १० ॥ ब्रह्मणे च बलिं दद्याल्लाजेन सह तन्त्रवित् । प्रार्याय फलभक्ष्यं स्यान्तिलमोदनकं दधि ॥ ११ ॥ पश्चाद्विवस्वते दद्याद्दधिपूर्वा (र्व) च मर्द (मित्र) के । महीधराय चोरं स्यादभ्यन्तर बलिं (लिः) स्मृतम् (तः) ॥ १२ ॥ २३ 8 12 16 20 24
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy