SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ नयनान्मीलनलक्षणम् देवानामपि देवीनां भक्तानां नेत्रमोक्षम् । लिङ्गानां लक्षयेोद्वारं (नामुद्धारलक्षणं) वस्त्वादीनां यथाक्रमम् ॥ १ ॥ स्थपतिः प्रकृतिः प्रेोक्तः स्थापको जीवमिष्यते । तस्मात्क्रियारम्भतः सह कुर्यात्तु संसदा ॥ २ ॥ एवं विधाय चान्येन वस्त्वादय (दीनि ) कृतान्यपि । वस्तोर्वास्तास्तु हानिः कर्तृनाशं भवेद् ध्रुवम् ॥ ३ ॥ किं सृजे नयनोन्मेषमन्धकारानुपत्तये । उदिते तु सहस्रांशौ यथा गच्छति समन्ततः ॥ ४ ॥ तथैवमखमानादि लोचनस्य जनस्य च । अन्तर्बहिश्च रागश्च म (स्तु चा )र्थनाशं न संशयः ॥ ५ ॥ प्रकृत्वा नयनान्मोक्षं चक्षू (तु) रोगो भवेद् ध्रुवम् । तस्मात्तु नयनान्मोक्षलक्षणं वक्ष्यतेऽधुना ।। ६ ।। हर्म्ये वा मण्डपे वापि स्थपतिस्थापकावुभैौ । स्थापनात्पूर्वके कुर्यादुक्तवदङ्कुरार्पणम् ॥ ७ ॥ पश्चात्तु सुमुहूर्ते च कुर्यान्नयनमोक्षणम् । प्रासादाभिमुखे चैव चेोत्तरे वाथ दक्षिये ॥ ८ ॥ नयनान्मीलनं (न) यागमण्डपं कल्पयेत्सुधीः । नवहस्तं सप्तहस्तं पञ्चहस्तमथापि वा ॥ ६ ॥ चतुरश्रसमाकारं षोडशस्तम्भमेव च । द्वादशस्तम्भमेवं वा कूटं वाथ प्रपाङ्गकम् ॥ १० ॥ चतुर्दिक्षु चतुर्द्वारं चतुस्तारणसंयुतम् । तन्मण्डपस्य मध्ये तु वेदिं कुर्यात्तु चोक्तवत् ॥ ११ ॥ 8 12 16 20
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy