________________
उत्तमदशताल विधानम्
उत्तमं (म) दशतालस्य लक्षणं वक्ष्यतेऽधुना । भूर्द्धादिपादपर्यन्तं तुङ्गमानं प्रशस्यते ॥ १ ॥ चतुर्विशन्तं कृत्वा तथैवांशेन मानयेत् । उष्णीषात्शपर्यन्तं चतुर्मात्रं प्रशस्यते ॥ २ ॥ केशान्तादिहन्वन्तं सैक्रार्कींशं मुखायतम् । अधीशं गलमानं स्याद् वेदांशं गलतुङ्गकम् ॥ ३ ॥ गलान्ताद्धृदयान्तश्च उ(स्तु चो) दरं नाभिसीमकम् । नास्तु मेढसीमान्तं सार्धत्रयोदशांशकम् ॥ ४ ॥ मेदान्तमूरुदीर्घ (दैर्घ्य) स्यात् सप्तविंशाङ्गुलं भवेत् । जानुतुङ्गे युगानुयं जघा । रुसमायतम् ॥ ५ ॥ पादजानुसमोत्तुङ्गं मुखायामं त्रिधा भवेत् । प्रचिसूत्रावसानं च तस्याधो त (स्त) त्पदान्तकम् ॥ ६ ॥ हिकासूत्रादधा बाहुदीर्ध(दैर्घ्य)मृताङ्गुलं भवेत् । कूर्परं च द्विमात्रं स्यान्मणिबन्धावसानकम् ।। ७ ।। प्रकोष्ठमेकविंशांशं दीर्घ तस्य तलायतम् । मध्याङ्गुल्याप्रपर्यन्तं सार्धत्रयोदशांशकम् ॥ ८ ॥ तन्मध्यम (मा)ङ्गुलायामं सार्धं षडङ्गुलं भवेत् । शेषं चान्तस्तल्लायामं पाद (दं) सप्तदशांशकम् ॥ ६॥ अङ्गुष्ठात्पार्ष्णिपर्यन्तं तद्दीर्घाङ्गुष्ठ मायतम् । सपाद ( सार्ध) वेदाङ्गुलं प्रोक्तं तदर्ध विस्तृतं भवेत् ॥ १० ॥ तदर्घ नखविस्तारं तत्पादोनायतं तथा ।
नखं वृत्तायतं चैव चांशं तन्मुखं मांसलम् ॥ ११ ॥
8
12
16
20