SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ गृहप्रवेशविधानम् अथ वक्ष्ये नराणां च गृहवेशस्य लक्षणम् । सर्वेषां जातिहाणां चोक्तवत् क्रियान्वितम् ॥१॥ उत्तरायणमासे तु दक्षिणायन मे(ने चै)व वा । मिथुनं धनुः कन्यां च मीनं चैव विवर्जयेत् ॥२॥ प्रशस्तपक्षनक्षत्रे सुमुहूर्ते सुलग्नके। उभयोः स्थिरराशौ च शुक्लपक्षे प्रवेशयेत् ॥ ३॥ स्थपतिः स्थापकश्चोभा गृहवेशं समारभेत् । गृहाने मण्डपं कृत्वा प्रपा वा कूटमेव वा ॥ ४ ॥ पञ्चसप्तकरं तत्र गेहता समाप्रकम् । षोडशस्तम्भयुक्तं वा द्वादशस्तम्भमेव वा ॥ ५॥ विविधानां विधानानां नानावस्त्रैग्लङ्कृतम् । गोमयालेपनं कृत्वा चोक्तवत्कृतसमकम् ॥ ६॥ गृह वा मध्यरङ्गे [वा] पार्वे वा चैशकोणके। कुर्यादुक्तवच्छिल्पी सा(चा)रार्पणमेव वा ॥७॥ वास्तुमध्या(ध्ये उ)क्तवच्छिल्पी साधारणबलिं दिशेत(क्षिपेत)। पापादाष्टारणां च(पाद्यष्टामरांश्चैव) पूजयेत्स्थपतिः प्रभुः ॥८॥ मार्यादीनां चतुर्थाना(णी च) स्थामकेन बलिं(लिः) ददेत(दीयेत)। ब्रह्मादिदेवताश्चैव पूजयेद् विधिवत्(धिना) सह ॥६॥ वास्तुहोम ततः कृत्वा तृप्त्यर्थ वास्तुदेवताः । शुद्धिं कृत्वा ततः पश्चात्पर्यनिकरणं गृहम् ॥ १०॥ जलसंप्रोक्षणं कुर्यात्पुण्याहं वाचयेत्ततः । पश्चगव्येन संप्रोक्ष्य स्थपतिः स्थापकैः सह ॥ ११॥
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy