________________
२५२
गर
276
280
284
मानसारे दीर्घशाला दशांश(शा) स्याघ्रस्खशाखा यमांशकम्(का)। विस्तार पूर्ववत्कुर्यादथवा त्र्यंशालिन्दकम् ॥ १३८॥ शेषं प्रागुक्तवत्कुर्याद् देवानां तु चतुर्मुखम् । वद्विस्तारायते भागं तस्माद् गंशाधिकं बुधः ॥ १३६ ॥ बंशेनालिन्दविस्तारं सर्व कुर्यात्पूर्ववत् । यथेष्टावास(सं) संकल्प्य चेष्टदिक चान्तरालके ॥१४०। अन्तःशाखा यथाद्वारं दण्डकस्योक्तवत्कुरु। एतबतुर्मुखं प्रोक्तं पूर्वोक्तानां तु संमतम् ॥ १४१ ॥ सर्वतोभद्रविन्यास(स)लक्षणं वक्ष्यतेऽधुना। . समानं सर्वतोभद्रं चाष्टभागं विभाजिते ॥ १४२ ।। मभ्याङ्गणं चतुर्भाग चांशेनावृतालिन्दकम् । परितो बंशेन शाज्ञा च चतुर्वाससमन्वितम् ॥ १४३॥ द्विचतुर्भागविस्तारमा(ग)याम [च] वा समीरितम् । चतुष्कोणे चतुर्भक्ति मण्डपं तु चतुष्टयम् ॥ १४४ ॥ तत्तद्वायाधृतांशेन कुर्याद् भ्रमालिन्दकम् । चतुर्दितु चतुरिं युक्तं भद्रं चतुष्टयम् ॥ १४५॥ वेदांशेन विस्तारं निर्गमं चापि भद्रकम् । ऊर्ध्वभूमि समारुख कर्णे सोपानमंशके(कम्) ॥१४६ ॥ प्रच्छादनाङ्गणं कुर्यान [तु] प्रच्छादनमेव वा । एकानेकवल्लोपेतं पूर्ववत्समजङ्कतम् ॥ १४७ ॥ कहादिसंयुक्कं प्रासादवदलङ्कृतम् । एतत्तु सर्वतोभद्रं पूर्वोक्तानां तु संमतम् ॥१४८॥ पूर्ववद्विस्तृतायामे दशभाग(ग) विभाजिते । वेदवेदांशकं मध्ये विवृतं संवृता(तम)ङ्गणम् ॥१४६ ॥ तदहियावृतांशेन कर्करीसमखडूतम् । शेष तु पूर्ववकुर्यात्सर्वतोभद्रमीरितम् ॥ १५०॥ शाला च वर्धमानं च लक्षणं वक्ष्यतेऽधुना । नवपकिरा(रमा)रभ्य द्विद्विहस्तविवर्धनात् ॥ १५१॥
288
292
296
300