________________
२०७
220
224
228
गोपुरविधानम् एवमेकतलं प्रोक्तं द्वितले भागमुच्यते । कृत्वा द्विरष्टभागं यद्भूतांशं चोर्ध्वपादकम् ।। ११०॥ द्विभागं प्रस्तरात्तुङ्गमेकांशं वेदितुङ्गकम् । कोलकं गलतुङ्ग स्याद्वेदांशं मस्तकादयम् ॥१११ ॥ तदर्ध स्तूपिकोत्सेधं शेषं तु पूर्ववद् भवेत् । तदुद्ध(धै) पञ्चविंशांशं कृत्वा च त्रितलं विदुः ॥११२ ॥ द्वितीयाध्योच्चं षड्भागं सार्धद्वयांशकं प्रति । तदूधै सार्धपञ्चाशं पादायामं तृतीयकम् ॥ ११३॥ अन्तिमं च द्विभागं स्याद् वैदिकोदयमीरितम् । प्रोवतुङ्गकलाभार्ग शिखरोचं युगांशकम् ॥११४ ॥ स्तूपितुङ्ग(ङ्ग) द्वयं प्रोक्तं प्रत्यूर्वादिशिखान्तकम् । न्वाधिक्यं दशांशं तद्विभजेत्तु चतुस्थ(स्त)ले ॥११॥ तदंशे सार्धबन्धा(ध्वं)शं पादोच्चं तद्वि(द्वितीयकम् । अर्धाधिकशिवांशान्तं तदूधै प्रस्तरमानकम् ॥११६ ॥ सार्धद्रिभाग(गं) पादोच्चं सपादांश(शं) कपोतकम् । सतिपादद्वया(यम)द्भिश्च(च) प्रस्तरोचं शिवांशकम् ॥ ११ ॥ वेदिकोच्चं तदर्ध स्याद् ग्रीवाञ्चं सार्धभागिकम् । तवयं शिखरात्तुङ्ग तदर्ध तच्छिखोदयम् ॥ ११८ ॥ प्रस्तरस्योपरिष्टात्तु स्तूपिकान्तोदयं तथा । षट्पञ्चभागिकं कृत्वा भूतांशं पादतुङ्गकम् ॥ ११६ ॥ नेत्रांशं प्रस्तरोत्तुङ्गं सार्धवेदा(दम)धितुङ्गकम् । त्रिपादोपेतमेकांशं प्रस्तरोदयमीरितम् ॥ १२०॥ सपादवेदा(दम)धितुङ्गं स्यात्सार्धभागा(गमू )र्ध्वमञ्चकम् । सार्धबन्ध्वा(न्ध्व)घितुङ्गं च (स)पादांशं प्रस्तरोदयम् ॥ १२१॥ तदूधै वेदि तुङ्गाध कन्धरं सार्धभागिकम । तद्वयं शिखरतुङ्गं स्यात्पादांशं तच्छिादयम् ॥ १२२ ॥ एवं पञ्चतलं प्रोक्तं शेपं प्रागुक्तवद् भवेत् । अथवा द्वारशोभादि पादुकान्तं शिखान्तकम् ।। १२३ ॥
232
236
240
244