________________
दशतलविधानम् दशभूमिविधानं च लक्षणं वक्ष्यतेऽधुना । विशालोत्सेधभक्तिच दशभूम्यास्तु पूर्ववत् ॥१॥ भूकान्तं चन्द्रकान्तं च भवनं चान्तरिक्षतः(कम)। मेघकान्ता(न्तम)ज्जकान्तं च ए(चै)वं षड्विधमीरितम् ॥ २॥ एवं नामवशाद्धर्यविस्तारं परिकल्पयेत् । भूकान्तं चन्द्रकान्तं दशतलहम्र्ये भागमानेन ॥ ३ ॥ नवतलहम्यवशात्पुरोक्तवत्कूटशालादीन् । क्षुद्रमध्यममेवं युक्त्या दशतले सङ्कल्प्य ॥४॥ उक्तहर्म्यविशाले प्र(त्व)टाविंशत्यंशकं कृत्वा । एकैकं कूटविस्तारं मध्ये द्वादशकं तु शाल(ला)भम् ॥ ५॥ अनुशाला गुणांशेन तत्पावें द्विद्विभागेन ह(हा)राः । महाशाला मध्यदेशे [तु] षड्भागेन भद्रसंयुतम् ॥ ६ ॥ एवं तु भवन(न)कान्तं श्रेष्ठं हH(म्य) दशतले कुर्यात् । तदेव सौष्ठिकविस्तारं हारानुशाला(ला) द्विद्विभागेन कुर्यात् ॥७॥ पूर्ववच्छेषं चान्तरिक्षकान्तमिदमुदितम् । तदेव शालापार्श्वे चैकं चैकेन(ोक) सौष्ठिकहाराः ॥८॥ षड्भागेन महाशाला चैतन्नाम्ना मेघकान्तं स्यात् । तन्मध्ये चतुरंशेन शालाभद्रयुक्तमब्जकान्तकम् ॥६॥ शेषं पूर्ववदुद्दिष्टं कुर्याद्दशतलहर्म्यविस्तारे । जन्मादिस्तूपिपर्यन्तं तुङ्गे गण्यं चाधुना वक्ष्यामः ॥ १० ॥ तुङ्गे त्र्यंशषष्ट्यंशं गुणांश(शं) मसूरकोत्तुङ्गम् ।
वयं पादतुङ्गं तदर्ध(ध) प्रस्तरा(रमू )र्ध्वदेशे तु ॥ ११ ॥