SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १८] विमानलचणम् द्वाविंशतिं च भागं च त्रयोविंशतिभागिकम् । क्षुद्रं नवतलं ह्येवं कुर्याद्भार्ग विमानके ॥ २७ ॥ एकविंशतिभागं च तद्वाविंशतिभागिकम् । त्रयोविंशतिभागं स्याच्चतुर्विंशतिभागिकम् ॥ २८ ॥ मध्यमं ध्यं) नवतलं 'कुर्यान्मध्यमे तद्विशालके । द्वाविंशतिं (तिश्) च भागं म्यानयोविंशतिभागिकम् ॥ २६ ॥ चतुर्विंशतिकं च ( चापि पञ्चविंशतिकांशकम् । श्रेष्ठं नवतलं प्रोक्तं कुर्यात्तु शिल्प (ल्प ) वित्तमः ॥ ३० ॥ त्रयोविंशतिभागं स्याच्चतुर्विंशतिभागिकम् । पञ्चविंशतिभागं च षड्विंशतिभागिकम् ।। ३१ ।। क्षुद्रं दशवलं कुर्याद्भागं सम (मध्य) विशाल के | चतुर्विंशतिकं चैव पञ्चविंशतिक तथा ।। ३२ ।। षड्विंशतिश्व भागं च सप्तविंशतिभागिकम् । मध्यमं (र्ध्य) दशतलं कुर्याद्विमानस्य विशालकम् (के) ।। ३३ ।। पञ्चविंशतिभागं स्यात्षडविंशतिभागिकम् । सप्तविंशतिभागं स्वादष्टाविंशतिभागिकम् ॥ ३४ ॥ श्रेष्ठं पङ्कितलं कुर्याद्भागं हर्म्य विशालके । षड्विंशतिश्च भागं स्यात्सप्तविंशतिभागिकम् ॥ ३५ ॥ प्रष्टाविंशतिभागं स्यान्नवविंशतिभागिकम् । क्षुद्रमेकादशतलं भागमानविशालके || ३६ || सप्तविंशतिभागं च (तु चाष्टाविंशतिभागिकम् । नवविंशतिकं चैव त्रिंशद्भागविशालकम् ।। ३७ ।। एकादशतलं प्रोक्तं मध्यमं तद्विमानके । अष्टाविंशतिभागं स्यान्नवविंशतिभागिकम् ॥ ३८ ॥ तत्तत्रिंशतिकं चैव चैकत्रिंशांशकं तथा । एकादशतलं श्रेष्ठं हर्म्यमूल विशालकं ॥ ३६ ॥ नवविंशतिभागं स्यात्रिंशदंशविशाल के (कम्) । एकत्रिंशद्वभागं स्याद्द्वात्रिंशां (शदं ) शकं भवेत् ॥ ४० ॥ 16 १२६ 56 60 64 68 72 76 80
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy