SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ 286 THE INDIAN ANTIQUARY. the following verse which occurs towards the end of my MS. of his work : मुक्तापीड इति प्रसिद्धिमगमत्काश्मीरदेशे नृपः श्रीमान्ख्यातयशा बभूव नृपतेस्तस्य प्रभावानुगः । मन्त्री लक्ष्मण इत्युदारचरितस्तस्यान्ववाये भवो * हेलाराज इमं प्रकाशमकरोच्छ्री भूतिराजात्मजः ॥ Punyaraja writes as follows:अथ महाभाष्यस्यावतारान्वाख्यानपूर्वकं टीकाकारो महत्तामुपवर्णयन्स्वरचितस्य ग्रन्थस्य गुरु पूर्वक्रममभिधातुमाह । प्रायेण संक्षेपरूचीनम्पविद्यापरिमहान् । संप्राप्य वैयाकरणान्संग्रहे । स्तमुपागते ॥ १ ॥ इह पुरा पाणिनीयेऽस्मिन्व्याकरणे व्याड्युपरचितं लक्षपरिमा ग्रन्थं संग्रहाभिधानं निवन्धनमासीत् । तच्च कालवशात्सुकुमारबुद्धीन्वैयाकरणान्प्राप्यास्तमुपागतम् । तस्मात्त्रे शभीरुत्वात्संक्षे परुचयस्ते जनाः । अत एवाल्पो विद्यासु परिग्रहः स्वीकारो येषा ते तथा । ततस्तैः संग्रहाध्ययनमुपेक्षित मित्यस्तयातः संग्रहः || ज्ञानोपविकल्पा धर्मसाधनाचा व्या करणस्मृतेरविच्छेदाय करुणाप्रयुक्तेनाथ भगवता पतञ्जलिना वार्त्तिकव्याख्यान पुरःसरं महाभाष्यनिबन्धनमुपरचितमित्यभिधानुमाह । कृते ऽथ पतन्जलिना गुरुणा तीर्थदर्शिना । सर्वेषां व्यापवीजानां महाभाष्ये निबन्धने ॥२॥ गुरुणेति भाष्यकर्तः पूजापदम् | तीर्थान्यागमविशेषास्तान्पइयति विजानातीति तीर्थदर्शी । अनेन गुरुत्वनिबन्धनः प्रभावातिशयो भगवत उक्तः । तच्च भाष्यं न केवलं व्याकरणस्य निवन्धनं यावत्सर्वेषां न्यायवीजानां बोद्धव्यमिति । अत एव सर्वन्यायवीज हेतुत्वादेव महच्छब्देन विशेष्यं महाभाष्यमित्युच्यते लोके ॥ अथ महत्त्वमेव विशेषणद्वारेणास्योपपादयितुमाह | अलब्धगाधे गाम्भीर्यादुत्तान इव सौष्ठवात् । गाधो निष्ठापरिच्छेद इयत्तेति यावत् । असावलब्धी यस्य । कस्मादित्याह । गाम्भीर्यादिति । गाम्भीर्यं गहनता प्रमेयबाहुल्येन दुरवगाहत्वम् । अतिगम्भीरं हि भाष्यमुपरचितं भगवता पतञ्ज लिनेति । न तस्याभिधेयं व्यवच्छेत्तुं केनचिच्छक्यत इति । किमेवमेकान्तगहनमिदं भाष्यम् । नेत्याह । उत्तान इवेत्यादि । उत्तानं स्पष्टम् | सौष्ठवं परिपाठी | यस्मादेतद्वाष्यं परिपाठीलक्षणादत्र सौष्ठवादुत्तानं स्पष्टप्रायं यत एवं प्रतिभात्यतो नेदमसेव्यम् | सब्जनमानसमिव निसर्गसुकुमारमतिगम्भीरं चैतदत एव महाभाष्यमित्युच्यत इत्यर्थः । एतेन संग्रहानुसारेण भगवता पतञ्जलिना संग्रहसंक्षेपभूतमेव प्रायशो भाष्यमुपनिबद्धमिदमित्युक्तं वेदितव्यम् । तदेवं ब्रह्मकाण्डे कायवाग्बुद्धिविषया ये मला इत्यादिश्लोकेन भाष्यकार प्रशंसक्तिह चैवं भाष्यप्रशंसेति शास्त्रस्य शास्त्रकले टीकाकृता महनी ॥ अन एवेदं महाभाष्यम कृतबुद्धयो नैव बोद्धुमलमित्याह । [OCTOBER, 1874. तस्मिन्नकृतबुद्धीनां नैवावास्थित निश्वयः ॥ ३ ॥ कृता व्युत्पत्त्या प्रकर्षं प्राप्ता महती बुद्धिर्येषां ते तथा तद्रूपवैकल्ये नाकृतबुद्धयः स्वल्पप्रज्ञा उच्यन्ते । तेषां निश्चयो निर्णयपर्यन्तो बोधो नैवालावास्थित । न प्रतिष्ठा मलभत । न तेनास्मद्गु - रोस्तत्रभवतो वसुरातादन्यः कश्चिदिमं भाष्यार्णवमवगाहितुमलमित्युक्तं भवति ॥ तथा च भूरापास्त विद्यामा पाटवादिदमाप्लावितमाभासी कृतमित्याह । वैजिशैौभवहर्यक्षैः' शुष्कतर्कानुसारिभिः । आर्षे विप्लाविते ग्रन्थे संग्रहप्रतिकञ्चुके || ४ || शुष्कतकों Sन्यशास्त्रपरिमलरहितः केवल एवं भण्यते । तमेवानुसरन्ति प्रमेयनिर्णयायेति तदनुसारिणः । महाभाष्यं हि बहुविश्वविद्यावाद वहलमा व्यवस्थितं ततश्चान्वीक्षिकीमात्रकुशलः कथं तन्निश्चिनुयादिति तर्कमात्रानुसारिभिस्तैस्तद्विप्लावितम् तर्कश्च पुरुषाणां स्वबुद्धिमालनिर्मितविग्रहो ऽव्यवस्थित एव । यदुक्तं s पर्थ कुमाः । भामेकतरेरयेरन्यत इति ॥ इत्थं च परस्परवैमत्यादागमसंत्यागाच्च यथावस्थितो व्याकरणागमः पातञ्जलिशिष्येभ्यः कालपरिवासाद्भ्भ्रष्टः सन्प्रन्थमात्रे पाठमात्र एव व्यवस्थितो दाक्षिणात्येष्वित्याह । यः पातञ्जलिशिष्येभ्यो भ्रष्ट व्याकरणागमः । काले स दाक्षिणात्येषु ग्रन्थमात्रे व्यवस्थितः ॥ ५ ॥ तदेवमुत्सन्नकल्पः संजाती व्याकरणागमः ॥ अथ कालान्तरेण चन्द्राचार्यादिभिरागमं लब्ध्वा तेन चोपायभूतेन सकलानि भाष्यव्यवस्थितानि न्यायवीजानि तान्यनुसृत्य व्याकरणागमः पुनरपि स्फीततां नीत इत्यभिधातुमाह । पर्वतादागमं लब्ध्वा भाष्यवीजानुसारिभिः । सनीतो बहुशाखा चन्द्राचार्यादिभिः पुनः ॥ ॥ विदेश I रावणविरचितो मूलभूतव्याकरणागमस्तिष्ठति केनचिच्च ब्रह्मर क्षसानीय चन्द्राचार्यवसुरातगुरुप्रभृतीनां दत्त इति तैः खलु यथावद्वयाकरणस्य स्वरूपं तत उपलभ्य संततं च शिष्याणां व्या ख्याय बहुशाखत्वं नीतो विस्तारं प्रापित इत्यनुश्रूयते ॥ अथ कदाचिद्योगतो विचार्य तत्रभवता वसुरातगुरुणा ममायमागमः संज्ञाय वात्सल्यात्प्रणीत इति स्वरचितस्यास्य ग्रन्थस्य गुरुपूर्वकमाव न्यायप्रस्थानमार्गांस्तानभ्यस्य स्वं च दर्शनम् । प्रणीतो गुरुणास्माकमयमागमसंग्रहः ॥ ७ ॥ न्यायस्य प्रतिष्ठा प्रस्थानं तस्य मार्गान् न्यायप्रस्थान मार्गान् । न्यायप्रतिष्ठितैर्बहुभिर्मार्गेरिति यावत् । न्यायप्रस्थानमार्गांस्तान्वं च दर्शनं व्याकरणसिद्धान्तलक्षणमभ्यस्यायं प्रणीतः । अनेन गुरुणा संज्ञाय न तथा ममायमागमसंग्रहः प्रणीतो येन संदेहो * MS. भुवा.
SR No.032495
Book TitleIndian Antiquary Vol 03
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages420
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy