SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ २१२] प्रथमगणधरोऽयं भाग्यसौभाग्यसंप न्निधिरुचितमिहास्तु स्वस्तिभाजो भवेयुः । सुभविकनिकरा यद्दर्शनेनैव शश्वद् वचनसुरसपानात् किं पुनः सिद्धिसिद्धी जनन-मरण - वेला - लोल - कल्लोल माला हति-विरति-भृतानामात्मभान्तावतास्तु । भयदभवपयोधेर्भीमरो व्याप्तलोकः, प्रथम गणपतेः सद्दर्शनं स्यान्न यावत् तदुचितमिहयच्छ्री-गौतमस्याभिधाने, निवसति जगतीस्था-शेषसंपत्प्रभुत्वम् । कथमनुदिनमेतन्-मन्त्रजापप्रभावा च्छ्रयति सकललक्ष्मीरन्यथा भक्तभव्यात् गणधरवरलब्धिविश्व विश्वोपकारा, जगति जयतु यस्या द्वादशांगी प्रसूतिः । तदनु सकलदेशो-द्धारसत्संयमश्रीः प्रभवति भविकानां मोक्षलक्ष्मीस्तु यस्याः चरमजिनपसेवालब्धलब्धिप्रभाव चरणकरणतत्वा-रागनैकान्तचित्तः। प्रथयति गणराजः शुद्धधर्मप्रकाशम् त्रिभुवनजननित्या-नन्दिसद्देशनाभिः सेवते गणधरक्रमपंकजं, यः सुधीः सरसभक्तिभावितः । ऐहिकं सकलकामित्तं फलं, प्रेत्य चापि लभते तथैव तत् गौतमं सुभगमेव गोत्रकं, यत्र गौतमगणेश्वरोऽजनि । वीरशासनमद्भुतं बभौ, यत्र गौतम गुरुर्गुरोः पदे *** भक्ति-व्यक्ति विशेषनुन्नमनसा श्रीगौतमः सत्तमः, स्तुत्यैवं प्रणुतस्त्रिलोकमहितः श्रीद्वादशांगीगुरुः । सौभाग्याद्भुतभाग्यहर्ष विनयश्रीसूरितत्वश्रिया [ મહામણિ ચિંતામણિ 11E11 119011 119911 119211 119311 119811 119411 निष्णातस्तनुतां ममोरुमहिमां श्री धर्महंसोज्ज्वलाम् ॥१६॥ ***
SR No.032491
Book TitleMahamani Chintamani Shree Guru Gautamswami
Original Sutra AuthorN/A
AuthorNandlal Devluk
PublisherArihant Prakashan
Publication Year
Total Pages854
LanguageGujarati
ClassificationBook_Gujarati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy