SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ जइ - जीयकप्पो अभावे न बलम्, न च सूत्रस्यार्थस्य वा ग्रहणमशक्तत्वात् पूर्वगृहीतस्य तु सूत्रार्थस्यावधारणं कुतः ? ततोऽशक्त्या सर्वं दूरत एव विस्मृतं ततोऽहं विनिर्गतः । योगभीरुबूते-तस्याचार्यस्य गच्छे योग एकान्तरोपवासेनोह्यते एकान्तराचाम्लेन वा । तथा योगवाहिनो योगोत्तीर्णस्यापि ते आचार्या विकृतिं न विसृजन्ति । ततः कर्कशास्तत्र योगा इति विनिर्गतः । प्रत्यनीकत्रस्तोऽभिधत्ते-तत्र गच्छे मम प्रत्यनीकोऽस्ति स कथञ्चित् सामाचारीयोगे विस्मृते स्खलिते दुष्प्रत्युपेक्षणादिके मां गृह्णाति, अत्यर्थं खरण्टयति । अथवा चुक्कस्खलितेषु जातेषु तानि चुक्कस्खलितानि अपराधपदे छिद्राणीव गृह्णाति गृहीत्वा च गुरूणां कथयति । पश्चाद् गुरवो मां खरण्टयन्ति । ततो विनिर्गतः । अथ स्तब्धो ब्रूते-यद्याचार्याश्चङ्क्रमणं कुर्वन्ति, कायिक्यादिभूमिं गच्छन्त्यागच्छन्ति वा तदा(था)ऽप्युत्थातव्यास्तेषां नायकत्वात् । तत एवं चक्रमणादावभ्युत्तिष्ठतामस्माकं कटी वातेन गृह्यते, भूयोभूय उत्थाने च पलिमन्थभावात् सूत्ररूपस्यार्थरुपस्य वा स्वाध्यायस्य हानिः । अथ नाऽभ्युत्थीयन्ते तत आचार्याः प्रायश्चित्तं ददन्ति खरण्टयन्ति च ततोऽहं विनिर्गतः । लुब्धः पुनरेवं ब्रूते-यत्किमपि उत्कृष्टं शिखरिणी-मोदकादि तदाचार्यः स्वयं भुङ्क्ते न त्वस्मादृशेभ्यो ददाति, अन्येभ्यो वा बालवृद्धदुर्बलप्राघूर्णकभ्यो ददाति । तत एवमसहमानोऽहं निर्गतः । यो निर्द्धर्मा स एवं भाषते-यदि कथमपि निर्गच्छन् प्रविशन् वा आवश्यकीं नैषेधिकीं च न करोति, दण्डादिकं वा गृह्णन् निक्षिपन् वा न प्रमार्जयति, तत आचार्या निरनुकम्पाः सन्त उग्रं प्रायश्चित्तं दण्डं प्रयच्छन्ति । ततोऽहं दण्डभयाद्विनिर्गतः । यः पुनरलसः स एवं ब्रूते-बालवृद्धादीनामर्थाय तस्मिन् गच्छे दीर्घा भिक्षाचर्या । क्षुल्लकं कर्कशं वा तत्क्षेत्रं ततः प्रतिदिवसमन्यत्र ग्रामान्तरे गत्वा भिक्षाऽऽनीयते । तथा यदि कथमप्यपर्याप्त समागम्यते ततो गुरुः खरण्टयति-किं वसतौ महानसमस्ति ? येनाऽपर्याप्तः समागतः । तस्माद् भूयोऽपि व्रज भिक्षार्थं यतः कालोऽद्यापि बहुः प्राप्यः क्षेत्रं भाजनं चास्तीति ततोऽहं निर्गतः । अनुबद्धवैरो भणति-कलहमपि कृत्वा तत्र संयता एकत्र भअते । यथा चण्डालाः शनका वा परस्परं भण्डित्वा तत्क्षा क्षणादेवैकत्र भुञ्जते नवरं मिथ्यादुष्कृतं परस्परं दाप्यन्ते इति विशेषः । अहं पुनर्न शक्नोमि हृदयस्थेन शल्येन तैः सहैकत्र समुद्देष्टुमिति विनिर्गतः । स्वच्छन्दमतिः पुनरेवं भाषते-तत्र गच्छे एकाकिनः सतः स्तोकमपि चलितुं न लभ्यं सञ्जाभूमावप्येकाकिनः सतो गन्तुं न प्रयच्छन्ति,किन्त्वेवं ब्रुवते-नियमात् सङ्घाटकरूपतया केनापि सहितेन गन्तव्यं ततस्तमसहमानोऽहमत्रागतः । एतान्यधिकरणादीनि पदान्याचार्यः श्रुत्वा तं परित्यजति ।।७८।। एतैश्चाधिकरणादिपदैरागतस्य तस्योपसम्पद्यमानस्य प्रतीच्छतश्चाचार्यस्येदं प्रायश्चित्तम् समणहिगरणे पडिणीअ लुद्ध अणुबद्धरोसि चउगुरुगा। सेसाण हुंति लहुगा एमेव पडिच्छमाणस्स ।।७९ ।। (नि०भा० ६३३४, व्य०सू० २५५)
SR No.032471
Book TitleJai Jiyaappo
Original Sutra AuthorN/A
AuthorNaybhadravijay Gani
PublisherParam Dharm
Publication Year2013
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy