________________
जइ-जीयकप्पो
व्याख्या - आचार्यः पुनश्चतुरो मासान् सर्वैरपि प्रकारैस्तेन समं सम्भुङ्क्ते । ततः परं चतुरो मासान् भक्तार्थं वर्जयति, स्वाध्यायं तु ददाति । ततश्चतुरो मासान् स्वाध्यायं परिहृत्य वन्दनाऽऽलापौ ददाति । ततः परं वर्षे पूर्णे सांवत्सरिके प्रतिक्रान्ते उपशान्तस्य मूलम् । अनुपशान्तस्य तु गणान्निष्कासनं कर्त्तव्यम् । एवं द्वादशमास्यामप्यनुपशाम्यतो द्वयोरादिममासयोर्यावद् गच्छेन विसर्जितस्तावत्तपः प्रायश्चित्तमेव, शेषेषु दशसु मासेषु पञ्चरात्रिदिवच्छेदो यावत् सांवत्सरिकं पर्व प्राप्तं भवति । पर्युषणारात्रौ प्रतिक्रान्तानामधिकरणे उत्पन्ने एष विधिरुक्तः । भाद्रपद शुद्धपञ्चम्यामनुदिते आदित्ये यदाऽधिकरणमुत्पद्यते ततः पर्युषणायामप्यनुपशान्ते संवत्सरो भवति । षष्ठ्यामुत्पन्ने एकदिवसोनः संवत्सरः । सप्तम्यां दिनद्वयोनः संवत्सर एवमेकैकदिनहान्या तावत् ज्ञेयं यावत् पर्युषणादिवसः । तत्रानुदिते खौ कलहे उत्पन्ने एवमेव नोदना कर्त्तव्या । प्रथमं स्वाध्यायप्रस्थापनं कर्तुकामाः सारयन्ति, ततश्चैत्यवन्दनार्थं गन्तुकामाः सारयेयुः, तत्राऽप्यनुपशान्ते प्रतिक्रमणवेलायां सारयन्ति । एवं तस्मिन् पर्युषणादिवसे त्रिषु स्थानेषु नोदितस्याऽनुपशान्तस्य त्रीणि मासगुरूणि भवन्ति । । ७६ । । ततः किमित्याह— मूलं तु पडिक्कंते पडिक्कमते वि हुज्ज अहिगरणं । संवच्छरमुस्सग्गे कमि मूलं न सेसाई ।। ७७ ।। (नि० भा० २८०६, बृ०क० ५७७२)
व्याख्या
- पर्युषणादिने सर्वेषामधिकरणानां व्यवच्छित्तिः कर्त्तव्येति कृत्वा प्रतिक्रान्ते समाप्ते आवश्यके यदि नोपशान्तस्ततो मूलं भवति । एष पर्युषणादिनोत्पन्नाधिकरणे विधिः । अथ प्रतिक्रमणं कुर्वतामेवाधिकरणं भवेत् । ततः सांवत्सरिके कायोत्सर्गे कृते मूलमेव केवलं, न शेषाणि प्रायश्चित्तानि । एवमाचार्यस्तं रुष्टं संवत्सरं यावत् प्रयत्नेन रक्षति । किमर्थम् ?, उच्यते - यदि नाम उपशाम्येत । अथ संवत्सरेणापि यदि नोपशाम्यति, ततः पर्वतराजीसदृशरोषः स मन्तव्यः । वर्षादूर्ध्वं च मूलाचार्यसमीपान्निर्गतं तमन्यौ द्वावाचार्यौ क्रमेणैकैकं वर्षमनेनैव विधिना प्रयत्नेन संरक्षतः । तन्मध्याद् येनोपशमितस्तस्यैवाऽसौ शिष्यः । ततो वर्षत्रयादूर्ध्वमेष गृहीक्रियते - सङ्घस्तस्य लिङ्गमपहरतीत्यर्थः । द्वितीयपदेन राजप्रव्रजितस्य लिङ्गं न ह्रियते । एवं भिक्षोर्विधिरुक्तः । उपाध्यायाचार्ययोरप्येष एव विधिः । नवरमुपाध्यायस्यानुपशाम्यतो गच्छे वसतस्त्रीन् पक्षांस्तपः प्रायश्चित्तम्, परतश्छेदः । आचार्यस्यानुपशाम्यतो द्वौ पक्षौ तपः, परतश्छेदः । ततो ये उपाध्यायस्य त्रयः पक्षास्ते दिवसीकृताः पञ्चचत्वारिंशद्दिवसा भवन्ति । ततः पञ्चचत्वारिंशद्दिवसाश्चतुर्धा क्रियन्ते । चतुर्भागे च सपादा एकादश दिवसा भवन्ति । तत्र गच्छ उपाध्यायेन सममेकादश दिनानि भक्तार्थं करोति । एवं स्वाध्यायवन्दनालापानपि प्रत्येकमेकादश