________________
इ-जीयकप्पो
क्षुल्लकस्योपस्थापना कर्त्तव्या । अथ स यद्येवं प्रज्ञाप्यमानो नेच्छति तदा पञ्च दिवसान् यावत्तिष्ठन्ति । ततः पुनरपि प्रज्ञाप्यते । तथाऽप्यनिच्छायां पुनरपि पञ्चाहं तिष्ठन्ति । पुनः प्रज्ञाप्यते तथाऽप्यनिष्टौ भूयः पञ्चाहमवतिष्ठन्ते । एवं यदि त्रिपञ्चाहकालेन स्थविरः प्राप्तो भवति, तदा युगपदुपस्थापना । अतः परं स्थविरेऽनिच्छत्यपि क्षुल्लक उपस्थाप्यते । अथाऽहङ्कारी सन्नहं पुत्रादवमतरो भविष्यामीति विचिन्त्य कदाचिदुन्निष्क्रामेत् । गुरोः क्षुल्लकस्य चोपरि प्रद्वेषं गच्छेत् । एवं स्वरूपे ज्ञाते त्रयाणां पञ्चाहानामुपर्यपि क्षुल्लकः प्रतीक्षाप्यते यावत्तेनाऽधीतमिति । एवं राजाऽमात्ययोः, राज्ञा च सह श्रेष्ठिसार्थवाहयोरपि वक्तव्यम् । एवं संयतीमध्ये मातादुहित्रोर्द्वयोः, महादेव्यमात्यपत्न्योः, श्रेष्ठिसार्थवाहपत्न्योश्च निरवशेषं वाच्यम् । चोपस्थाप्यमाना गुरोर्वामपार्श्वस्था एकोऽनेको वा गजदन्तवदवनता भवन्ति । तत्र यदि ते गुरुसमीपमग्रतो वाऽभिसरन्ति तदा गच्छस्य वृद्धिर्ज्ञातव्या । यथाऽन्येऽपि बहवः प्रव्रजिष्यन्ति । अथ पश्चाद् बहिर्वा ऽपसरन्ति तदा स उपस्थाप्यमानोऽन्यो वा उन्निष्क्रमिष्यति अपद्रविष्यति वेति निमित्तम् । तथा - आचार्य उपाध्यायो वा स्मरन् साधुरयमुपस्थापनार्हो जात इति जानानश्चतूरात्रमध्ये पञ्चरात्रमध्ये वा तन्नोपस्थापयति तत्र यदि तस्य कल्पाकस्य कश्चिन्माननीयः पिता भ्राता वा ज्येष्ठः स्वामी वा कल्पाको भावी पञ्चरात्रेण पञ्चदशरात्रेण वा ततो नास्ति तस्य प्रायश्चित्तम् । माननीयेऽनुपस्थापिते तस्योपस्थापनाया अयोगात् । अथ नास्ति तस्य कश्चिन् माननीयः कल्पाको भावी ततस्तस्याऽऽचार्यस्योपाध्यायस्य वा प्रायश्चित्तम् । अत्रादेशद्वयम् - एके प्राहुश्चतूरात्रात् परं यद्यन्यानि चत्वारि दिनानि नोपस्थापयति, तत आचार्यस्योपाध्यायस्य च प्रत्येकं प्रायश्चित्तं चतुर्गुरुकम् । अथ ततोऽप्यन्यानि चत्वारि दिनानि लङ्घयति, ततः षड्लघुकम् । ततोऽप्यन्यानि चेच्चत्वारि दिनानि ततः षड्गुरुकम् । ततोऽप्यन्यानि यदि चत्वारि दिनानि ततश्चतुर्गुरुकश्छेदः । परमन्यानि चत्वारि दिनानि यदि तर्हि षड्लघुकश्छेदः । ततोऽपि चेदन्यानि चत्वारि ततः षड्गुरुकश्छेदः । ततः परमेकैकदिवसातिक्रमे मूलानवस्थाप्यपाराञ्चितानि । द्वितीयादेशवादिनः प्राहुः - पञ्चरात्रात् परं यदि नोपस्थापयति ततश्चतुर्गुरुकं प्रायश्चित्तम् । परं यदि पञ्चदिनानि लङ्घयति ततः षड्लघुकम् । ततः परमपि पञ्चरात्रातिक्रमे षड्गुरुकम् । ततोऽपि परं यदि पञ्चदिनानि वाहयति ततश्चतुर्गुरुकश्छेदः । ततः परमन्यानि चेत् पञ्चदिनानि ततः षड्लघुकश्छेदः । ततोऽपि पञ्चरात्रातिवाहने षड्गुरुकश्छेदः । ततः परमेकैकदिवसातिवाहने मूलानवस्थाप्य - पाराञ्चितानि । अथ दर्पप्रमादव्याक्षेपग्लानत्वकारणैरस्मरन्नोपस्थापयति, तत्र व्यायामवल्गनादिषु व्यापृततया यो निष्कारणोऽनादरः स दर्प:, तेनानुपस्थापने प्रायश्चित्तं चत्वारो गुरुकाः । विकथादीनां पञ्चानां प्रमादानामन्यतमेन प्रमादेनानुपस्थापने चत्वारो लघुकाः । सीवनतुन्नस्वाध्यायध्यानपात्रलेपादिदानकार्येर्यो व्याक्षेपः, तेनानुपस्थापने गुरुको मासः । ग्लानत्वेन त्वनुपस्थापने लघुमासः । अथ राज्ञो युवराजस्यामात्यादेर्वा प्रतिदिवसमागच्छतो धर्मकथा कथ्यते । परप्रवादी वा कश्चनाऽप्युपस्थितः स वादे निग्रहीतव्य इति तन्निग्रहणाय विशेषतः शास्त्राभ्यासे,