________________
जइ - जीयकप्पो अथ अत्र सूत्रेऽनुक्तमपि पूर्वजीतकल्पगतं पुरुषद्वारं सप्रपञ्चमत्रापि लिख्यतेपुरिसा गीआगीआ सहासहा तह सढासढा केई । परिणामापरिणामा-अइपरिणामाइ वत्थूणं' ।।
(गु०वि० २/३२८) इह आलोचनाग्राहिणः पुरुषाः किं स्वरूपाः ? इति प्रथममेवाचार्यैर्विचार्यास्तदपेक्षया प्रायश्चित्तं दातव्यम् । ते च बहुप्रकाराः । तद्यथा-गीतार्था अधिगताचारप्रकल्पादिनिशीथान्तश्रुताः । तदितरे त्वगीता अगीतार्थाः । सहाः सर्वप्रकारैः समर्थाः । असहाः त्वसमर्थाः । तथा केचित् शठा मायाविनः । अशठाः सरलात्मानः । परिणामकादयस्त्रयोऽपि पूर्वमदूरे छेआइमसद्दहओ' इति (अस्य ग्रन्थस्य २४५) गाथाया विवरणे व्याख्यातास्ततो नात्र पुनः प्रतन्यन्त इति ।। सह धिइसंघयणोभयसंपन्ना तदुभएण हीणा य । आयपरोभयनोभयतरगा तह अन्नतरगा य' ।।
(गु०वि० २/३२९) तथा धृतिसंहननोभयसम्पन्नास्तदुभयेन हीनाश्च । इह भङ्गचतुष्टयं सम्भवति । तत्र धृत्या सम्पन्ना इत्येकः । संहननेन सम्पन्ना इति द्वितीयः । उभयेन धृतिसंहननाख्येन सम्पन्ना इति तृतीयः । तदुभयेन हीनाश्चेति चतुर्थः । तथा आत्मपरोभयानुभयतरका' इति । अत्रापि चतुर्भङ्गी । आत्मानुग्राहकं तपः, परोपष्टम्भकारकं वैयावृत्त्यं तयोर्द्धयोरपि समर्थाः परं ये तप एव कुर्वन्ति, न वैयावृत्त्यं ते आत्मतरकाः, स्वार्थेऽत्र कः, न परतरका इति प्रथमः । ये तु वैयावृत्त्यमेव कुर्वन्ति न तपस्ते परतरका इति द्वितीयः । ये तूभयमपि कुर्वन्ति ते उभयतरका इति तृतीयः । ये पुनरुभयमपि न कुर्वन्ति ते नोभयतरका इति चतुर्थः । तथा अन्नतरगा' त्ति । अन्यतरकाः ये तपोवैयावृत्त्ययोरन्यतरदेकमेव कर्तुं शक्नुवन्ति नोभयकरणक्षमा इत्यर्थः ।। कप्पठिआदओ वि अ चउरो जे सेअरा समक्खाया । साविक्खेअरभेआदओ अ जे ताण पुरिसाण' ।।
... (गु०वि० २/३३०) कल्पः सततासेवनीयः समाचारः । स चायम्आचेलुक्कुद्देसिअ सिज्जायररायपिंड किइकम्मे । वयजिट्ठ पडिक्कमणे मासं पज्जोसवणकप्पे' ।।
(बृ०क० ६३६४, नि०भा० ५९३३) न विद्यते चेलं वस्त्रं यस्यासावचेलकस्तस्य भाव आचेलक्यम् । सचेलत्वे चायमचेलकत्वव्यपदेशः । तथा चान्यत्रापि दृश्यतेजह जलमवगाहिंतो बहुचेलो वि सिरवेढिअकडिल्लो । भन्नइ नरो अचेलो तह मुणओ संतचेला वि ।। तह थोव-जुण्ण-कुच्छिअचेलेहिं वि भन्नए अचेलुत्ति । जह तूर सालिअ ! लहुं दे पुत्तिं नग्गिआ मु ति।।
(वि० आ०भा० २६००-२६०१) उद्देशेन साधुसङ्कल्पेन निवृत्तमौद्देशिकम् आधाकर्म । शय्यया वसत्या तरति भवाम्भोधिमिति शय्यातरः,