________________
जइ - जीयकप्पो जाणंतु ता इमे समणा आयअट्ठी (मोक्षार्थी) अयं मुणी । संतुट्ठो सेवए पंतं लूहवित्ती सुतोसओ' ।।
(दशवै० सूत्रम् ५/२/३३-३४) इत्यादिकासु यशोऽर्थं कृतासु मायासु पुनश्चतुर्गुरुकाः ।।२३५।। तथा
विज्जाइसुविणलक्खणकोउअभूईनिमित्तपसिणेसु ।
गिहिणा उवहिवहावणि वमणविरेआइसु अ लहुगा ।।२३६ ।। व्याख्या-विद्या स्त्र्यभिधाना सोपचारसाधना वा, आदिशब्दान्मन्त्र-योगा गृह्यन्ते । तत्र मन्त्रः पुरुषाभिधानः पठितसिद्धो वा, वशीकरणविद्वेषणोच्चाटनपादलेपान्तर्धानादिका योगा अनेकविधास्ते पुनः सर्वेऽपि सविद्या अविद्या वा भवन्ति । स्वप्नं सुप्तजागरावस्थायां प्रायो यद् दृश्यते तच्च शुभाशुभमागामिसुखदुःखनिमित्तं भवति । लक्षणं द्विधा बाह्यमभ्यन्तरं च । तत्र बाह्यं स्वरवर्णादि । अभ्यन्तरं स्वभावसत्त्वादि । तत्र प्राकृतमनुष्याणां बाह्यानि द्वात्रिंशल्लक्षणानि भवन्ति । बलदेववासुदेवानामष्टोत्तरं शतम् । चक्रवर्तितीर्थकराणामष्टोत्तरं सहस्रम् । यानि हस्तपादादिषु स्फुटानि लक्ष्यन्ते तेषामिदं प्रमाणम् , यानि पुनरन्तःस्वभावसत्त्वादीनि तैः सह बहुतराणि भवन्ति । उपलक्षणाढ्यञ्जनमपि ज्ञेयम् । लक्षणव्यञ्जनयोरयं विशेषः- मानोन्मानादिकं लक्षणम्, मषतिलकादिकं व्यञ्जनम् । अथवा शरीरेण सहोत्पन्नं लक्षणं पश्चात्समुत्पन्नं व्यअनम् । मानोन्मानप्रमाणानां चेदं व्याख्यानम्जलदोणमद्धभारं समुहाई समुस्सिओ व जो नव उ । माणुम्माणपमाणं तिविहं खलु लक्खणं एअं'।।
(नि०भा० ४२९५ तः ४३०४) कौतुकं निन्दुप्रभृतीनां श्मशानचत्वरादिषु स्नानविधापनम् । भूतिकर्म रक्षानिमित्तं विद्याभिमन्त्रितरक्षाप्रदानम्। निमित्तमतीतादिकालत्रयगतलाभालाभसुखदुःखादिकथनम् । प्रश्नो नानाविधा लोकपृच्छा लग्नबलादिना तस्य कथनम् । प्रश्नात्प्रश्नो वा । स चायं स्वप्नमध्ये विद्या किञ्चित्कथयति । अथवा विद्याभिमन्त्रिता घण्टिका कर्णमूले चाल्यते तत्र देवता कथयति तस्य परेषां कथनम्, ततो विद्यामन्त्रसविद्यायोगप्रयोगे स्वप्नलक्षणव्यञ्जननिमित्तप्रश्नकथने कौतुकभूतिकर्मकरणे, उपलक्षणत्वान्निधानधातुवादकथने शिल्पद्वासप्ततिकलाशिक्षणे मार्ग पृच्छतां मार्गकथने च चतुर्लघुकाः प्रायश्चित्तं भवति । अविद्यायोगप्रयोगे तु मासलघु । मित्रे पुनः संयोगप्रायश्चित्तम्। तथा गृहिणा गृहस्थेनाऽन्यतीर्थिकन वा उपधेः स्वोपकरणस्य वाहने चतुर्लघुकाः । आज्ञादयश्च दोषाः । इमे चापरे-स गृहस्थोऽन्यतीर्थिको वा उपकरणं पातयेत् भाजनं वा भिन्द्यात् मलिने दुर्गन्धे चोपकरणे जुगुप्सा कुर्यात् षट्पदिका वा पातयेत् मारयेद्वा । अयोगोलकल्पो वाऽसौऽस्थण्डिले पृथिव्यादौ स्थापयेत् तद्भारेण वा तस्यात्मविराधना भवेत् तत्र परितापनादि, यच्च पश्चादौषधभेषजानि कुर्वन् विराधयति तन्निष्पन्नं च तस्य प्रायश्चित्तं स्यात् । स वा तदुपकरणं हरेत् तस्यानुपयुक्तस्याऽन्यो हरेत्, ग्लानत्वादिकारणैः पुनरुपकरणवाहनेपि