SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ जइ - जीयकप्पो संपुडगो दुगमाइ-फलगा । गोमहिषाऽजैडकमृगाणां चर्माणि चर्मपञ्चकम् । द्वितीयमपि चर्मपञ्चकं भवति। यथा-तलिगाखल्लगवद्धे कोसगकत्ती अ बीअंतु । कोशकाद्याधारं चर्म । कृत्तिः प्रलम्बविकर्तनाय । अत्र च तृणपञ्चके दुष्प्रतिलेख्यदूष्यपञ्चके चर्मपञ्चके च निष्कारणपरिभुक्ते लघुमासः । अप्रतिलेख्य दूष्यपञ्चके गुरुमासः । पुस्तकपञ्चके च गृहीते चतुर्लघुकाः । यच्च त्रसानां द्वीन्द्रियादीनाम् पुस्तकान्तर्गतानां वा वधे आपद्यते तदपि च प्रायश्चित्तं भवतीत्यर्थः । त्रसविराधना च पुस्तकेष्वित्थमुक्ता । जइ तेसिं जीवाणं तत्थ गयाणं तु लोहि हुन्जा । पीलिज्जते धणि गलिज्ज तं अक्खरे फुसिउं ।। (नि०भा० ४००७, बृ०क० ३८३०) यदि तेषां तत्र गतानां पुस्तकपत्रान्तरस्थितानां जीवानां कुन्थुप्रभृतीनां लोहितं भवेत् । ततः पुस्तकबन्धनादिकाले तेषां धणियं गाढतरं पीड्यमानानां तत् रुधिरमक्षराणि स्पृष्ट्वा बहिः परिगलेत् । अत एवजत्तिअमित्ता वाराउ मुंचई बंधई व जइ वारा । जइ अक्खराणि लिहइ तइ लहुगा जं च आवज्जे ।। (नि०भा० ४००८, बृ०क० ३८३१) यावन् मात्रान् वारान् पुस्तकं मुञ्चति छोटयति । यति वारांश्च बध्नाति । यति वा यावन्ति अक्षराणि लिखति । तति तावन्ति चतुर्लघूनि । यच्च कुन्थुपनकादीनां सङ्घट्टनं परितापनमपद्रवणं वा आपद्यते तन्निष्पन्नं च प्रायश्चित्तं भवति । द्वितीयपदेन तु मेधाधारणादिपरिहाणिं विज्ञाय कालिकोत्कालिकश्रुतस्य दानग्रहणादौ भाण्डागारमेवेदं भविष्यतीत्येवमर्थं पुस्तकपञ्चकमपि गृह्यते । उक्तं च-धिप्पइ पुत्थगपणगं कालिअनिज्जुत्तिकोसट्टा ।।२१४।। तथा छल्लहु अकालधुअणे फुल्लिअ-धुवणंडुवद्दवे छगुरू । मत्तविणु बहिनिरोहे लहुगा लोहे गुरुग नढे ।।२१५।। व्याख्या-वर्षारम्भकालं विना यदुपधिप्रक्षालनं तदकालधावनं तच्च साधूनां न कल्पते । अनेकदोषसम्भवात् । उक्तं चउउबद्धधुवण बाओस बंभविणासो अट्ठाणठवणं च । संपाइमवाउवहो पावणभूओवधाओ अ' ।। (पिं०नि० ३१) ऋतुबद्धे काले चीवरधावने चरणं बकुशं भवति उपकरणबकुशत्वात् । तथा ब्रह्मविनाशो मैथुनप्रत्याख्यानभङ्गः। प्रक्षालितवासःपरिधानभूषितशरीरो हि विरूपोऽपि रमणीयत्वेन प्रतिभासमानो रमणीनां रमणयोग्योऽयमिति प्रार्थनीयो भवति, किं पुनः शरीरावयवरामणीयकोपशोभितः । ततः कामिनीकटाक्षविक्षेपादिक्षोभितोऽवश्यं ब्रह्मचर्यादपभ्रश्यति । तथा अस्थानस्थापनम् । इयमत्र भावना-यदि कथञ्चित्तत्त्ववेदितया संयमविषयनिष्पकम्पधृत्यवष्टम्भतो न ब्रह्मचर्यादपभ्रश्यति तथापि लोकेनासौऽस्थाने स्थाप्यते । यथा-नूनमयं कामी कथमन्य
SR No.032471
Book TitleJai Jiyaappo
Original Sutra AuthorN/A
AuthorNaybhadravijay Gani
PublisherParam Dharm
Publication Year2013
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy