SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ जइ - जीयकप्पो आसुररक्खसभागे गुरुगजणमाइदूसिए वत्थे । पिंडम्मि व वत्थम्मि वि पच्छित्तं सेसदोसेसु ।।१९४ ।। व्याख्या-इह यद्वस्त्रं प्रथमं लभ्यमानं भवति, तस्य प्रथमतस्त्रयो भागाः कल्प्यन्ते । भूयोऽप्येकैको भागस्त्रिधा विभज्यते । एवं नवभागीकृते वस्त्रे ये चत्वारः कोणकास्ते देवसम्बन्धिनो भागाः । यौ द्वावञ्चलमध्यभागौ तौ मनुष्यसम्बन्धिनौ । यौ च द्वौ भागौ कर्णपट्टिकामध्यलक्षणौ तावसुरसम्बन्धिनौ । सर्वमध्यगतः पुनरेको भागो राक्षससत्कः । यदुक्तम्घउरो अ दिबिआ भागा दुवे भागा य माणुसा । आसुरा य दुवे भागा मझे वत्थस्स रक्खसो' ।। (नि०भा० ५०८८, बृ०क० २८३३) एतेषु च नवसु भागेषु अञ्जनखअनकर्दमैः खरण्टितेषु मूषककंसारिकादिभिर्भक्षितेषु अग्निना दग्धेषु तुन्नितेषु रजककुट्टनेन पतितछिद्रेषु जीर्णेषु कुत्सितवर्णान्तरसंयुक्तेषु फलमिदमवबोद्धव्यम् । दिव्वेसु उत्तमो लाभो माणुसेसु अ मज्झिमो । आसुरेसु अ गेलनं मज्झे मरणमाइसे' ।। (नि०भा० ५०८९, बृ०क० २८३४) ततो यो द्वावासुरौ भागौ यश्चैको राक्षसो भागः, एतेषु त्रिषु भागेषु यद्वस्त्रमअनादिभिरादिशब्दात् खञ्जनकर्दममूषकाग्न्यादिभिर्दूषितं भवति, तस्मिन् वस्त्रे गृह्यमाणे गुरुकाश्चत्वारो भवन्ति । आत्मविराधनासद्भावात् आज्ञा च भगवतां विराधिता भवति । अतो यद्वस्त्रं निर्दोषं लक्षणोपेतं च स्यात् तत्साधुभिः संयमनिर्वाहनिमित्तं ग्राह्यं न पुनः कृत्स्नं वस्त्रम् । तच्च चतुर्धा-द्रव्यकृत्स्नम्, क्षेत्रकृत्स्नम्, कालकृत्स्नम् , भावकृत्स्नं च । तत्र यत्सदशं प्रमाणातिरिक्तं वा वस्त्रं तद्रव्यकृत्स्नम् । यद्वस्त्रं यत्र क्षेत्रे दुर्लभं बहुमूल्यं वा तत्तत्र क्षेत्रकृत्स्नम् । यद्वस्त्रं यस्मिन् काले अर्थितं (अर्पितं - बहुमूल्यं) दुर्लभं वा तत्तस्मिन् काले कालकृत्स्नम् , यथा ग्रीष्मे काषायवस्त्रं शिशिरे प्रावारादि वर्षासु कुमादिखचितम् । भावकृत्स्नं द्विधा–वर्णतो मूल्यतश्च । वर्णतः पञ्चविधं वर्णाढ्यं यथा-कृष्णं मयूरग्रीवासन्निभम् , नीलं शुकपिच्छसन्निभम्, रक्तम् इन्द्रगोपकसन्निभम् , पीतं सुवर्णच्छवि, शुक्लं शद्धेन्दुसन्निभं तदेवंविधं वर्णकृत्स्नम् । द्रव्यादिकृत्स्ने वर्णकृत्स्ने चोत्कृष्टे चतुर्लघु, मध्यमे मासलघु, जघन्ये पञ्चकम् । मूल्यकृत्स्नं पुनस्त्रिविधं-जघन्यं मध्यमं उत्कृष्टं च । तत्र यस्याष्टादश रूपका मूल्यं तज्जघन्यम् , लक्षरूपकमूल्यमुत्कृष्टम् , शेषं मध्यमम् । रूपकप्रमाणं चेदं-द्वीपसत्करूपकद्विकेनोत्तरापथरूपक एकः स्यात् तद्वयेन चैकः पाटलिपुत्रीयो रूपकः । अथवा दक्षिणापथरूपकद्वयेन काञ्चिपुरीयरूपकः एकः स्यात् तवयेन च पाटलिपुत्रीय एकः एवंविधो रूपकोऽत्रावगन्तव्यः । १८ रूपके मूल्ये वस्त्रे लघुमासः, २० रूपके चतुर्लघु, १०० रूपके चतुर्गुरु, २५० रूपके षड्लघु, ५०० रूपके षड्गुरु, सहस्ररूपके छेदः, दशसहस्ररूपके मूलम्, पञ्चाशत्सहस्ररूपकमूल्ये अनवस्थाप्यम्, लक्षरूपकमूल्ये पाराञ्चितम् । पात्रे
SR No.032471
Book TitleJai Jiyaappo
Original Sutra AuthorN/A
AuthorNaybhadravijay Gani
PublisherParam Dharm
Publication Year2013
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy