________________
जइ-जीयकप्पो
ननु आहाराग्रहणं तपोरूपं तपश्च परमपदप्रापणप्रवणकारणगणाग्रेसरम् । अतः कथं तस्मिन् विधीयमाने प्रायश्चित्तमापद्यते ? भवानुबन्धिसावधव्यापारनिबन्धनत्वात्, प्रायश्चित्तापत्तेः सत्यम्, परं तपोऽपि जिनाज्ञयैव विधीयमानं सिद्धिनिबन्धनं सम्पद्यतेऽन्यथा तु क्रियमाणं तदपि भवानुबन्ध्येव भवेत् । अतस्तस्मिन् तथाविधे प्रायश्चित्तमपि सङ्गच्छते। इति अमुना प्रदर्शितप्रकारेण प्रायश्चित्तं ग्रासैषणादोषपञ्चकविषयमाख्यातं प्ररूपितम् ।।१६७।। एवमाहारविषयसप्तचत्वारिंशद्दोषप्रायश्चित्तं प्ररूप्य पुनराहारानुगतकियघोषान्तरप्रायश्चित्तं प्रदर्शयन्नाह
गच्छगयनिग्गयाणं लहुगा गुरुगा गिहेलुगस्संतो।
भिक्खट्ठपविट्ठाणं निच्छुभणाणाइदोसा य ।।१६८।। व्याख्या-गच्छगता गच्छवासिनः स्थविरकल्पिकाः साधवः, गच्छनिर्गताः प्रतिमाप्रतिपन्नादयस्तेषां गच्छगत-निर्गतानां साधूनां गृहस्य लोकसदनस्य य एलुक उम्बरो द्वारे काष्ठादिमयस्तस्यान्तः मध्ये भिक्षार्थं भिक्षानिमित्तं प्रविष्टानाम्, उपलक्षणमेतत् तेनैलुकं विष्कम्भयताम्-एलुकस्यासन्नप्रदेशे वा तिष्ठतां क्रमेण चतुर्लघुकाः चतुर्गुरुका भवन्ति । गच्छवासिनां चतुर्लघु, गच्छनिर्गतानां चतुर्गुरु प्रायश्चित्तं भवतीत्यर्थः । निष्कासनाऽऽज्ञाभङ्गादयो दोषाश्च भवन्ति । तथाहि-एलुकात् परतो यदि साधुर्गच्छति तदा स्तैन्ये मैथुने वा शङ्का स्यात् । तत्र गृहमध्ये गृहस्वामी हिरण्यादेर्निधानं करोति उत्खननं वा, तत्र स्तेनोऽयमिति शङ्का भवेत् । यस्या गृहमभ्यन्तरमतिगतस्तस्या विषयेऽस्य साधोरिच्छा येनेत्थमभ्यन्तरं सहसा प्रविष्ट इति लोकस्य चतुर्थव्रतविषये शङ्का स्यात् । ततः स्तेनपारदारिकबुद्ध्या ग्रहणम् , ततो राजकुलं प्रति कर्षणम् , तदनन्तरं राजकुले व्यवहरणम् , ततः पश्चात्कृतकरणम् । एवं च सति महान् प्रवचनस्योड्डाहः । तथा निर्विषयत्वकरणम् । तथा अतिभूमिप्रवेशनं तीर्थद्भिर्गृहस्थैश्चाननुज्ञातं ततोऽदत्तादान दोषः । तथा कस्मादतिभूमिमेष प्रविष्टः ? इति प्रद्विष्टः सन् गृहस्थोऽधिकरणं कुर्यात् । तथा हीलना यथा- एते वराका अलभमाना मध्ये प्रविशन्ति' । तथा गलके गृहीत्वा बहिःकर्षणं कुर्वन्त्यगारिणः । अगारिणी वा मध्ये अप्रावृता दुर्निविष्टा वा भवेत्, ततः सहसा साधोरभ्यन्तरप्रवेशे तस्या लज्जा स्याद्, एवमादयोऽनेकदोषाः प्रादुःष्यन्ति। ततः साधुना सहसा गृहाऽभ्यन्तरे न प्रवेष्टव्यम् ।।१६८।।
निअअग्गपिंडि लहुगो सनिकायनिमंति सागरिअपिंडे ।
अमणुन्नं च इअ मणुन्नं भुंजणे भत्तपाणस्स ।।१६९।। व्याख्या-नियतो ध्रुवः शाश्वत इत्यर्थः । योऽग्रो वरः प्रधानः, अथवा यः प्रथमं दीयते स नियताऽग्रपिण्डः । अथवा भीअग्गे तिपाठः । ततो नित्यम् अनवरतं योऽग्रपिण्डः तत्क्षणोत्तीर्णोदनस्थाल्या अव्यापारितायाः शिखाकूरलक्षणः तस्मिन्नियताग्रपिण्डे नित्याऽग्रपिण्डे वा गृहीते लघुमासः । निकाचनं निकाचो निबन्धः ।