SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ सड- जीयकप्पो | ...७२... प्रहारदाने गुरु, पीडने चतुर्लघु, मूर्छायां चतुर्गुरु, हस्तपादादिभङ्गे षड्लघु, उपद्रवे क्षपणदशकम् । दर्पण पञ्चेन्द्रियोपद्रवे पञ्चकल्यम् । प्रमादेन पञ्चेन्द्रियोपद्रवे क्षपणपञ्चकम् । आकुट्ट्या क्षपणविंशतिः । कल्पेन षड्लघु । दर्पादिस्वरूपं त्विदम् - 'आउट्टिआ उविच्चा दप्पो पुण होइ वग्गणाईओ । कंदप्पाइ पमाओ कप्पो पुण कारणे करणं ।।। (यतिलक्षणसमुच्चय १००) एतस्या भावार्थ:-'संकप्प वग्गणाई'' त्यादिसप्तदशोत्तरशतगाथाव्याख्यावसरे सविस्तरं प्रतिपादयिष्यतीतीह नोच्यते इति गाथार्थः ।।७३ ।। अथ यथोक्तप्रायश्चित्तकरणासामर्थ्य तत्करणे प्रकारान्तरमाह - पणकल्लं पच्छित्तं अतरते जहकमेण काउं जे । कारिति दस चउत्थे दुगुणायंबिलतवे चेव ।।७४ ।। (व्य०सू० ४१८५, जि०भा० ३०४) व्याख्या-कल्यं नि०पु०ए०आं०उ० रूपम् । तच्च पञ्चगुणं पञ्चकल्यं प्रायश्चित्तं पञ्चाभक्तार्थाः, पञ्चाचाम्लानि, पञ्चैकाशनानि, पञ्च पूर्वार्द्धाः, पञ्च निर्विकृतिकानीत्येवंरूपं बहुपञ्चेन्द्रियोपद्रवाद्यापन्नं 'अतरते'' त्ति । आलोचकान् पुरुषानतरतो यथाक्रमेण निर्विकृत्यादि यथोक्तप्रकारेण कर्तुमशक्नुवतो 'जे'' इति पादपूरणे 'अजेराः पादपूरणे'' इतिवचनात् । कारयन्ति दश चतुर्थान् गीतार्था इतिशेषः । अयमर्थः- एतत् पञ्चकल्यं तपो यथोक्तक्रमेण कर्तुमशक्नुवतः पुरुषान् दश चतुर्थान् कारयन्तीति । तथा 'चेव' त्ति । चैवशब्दस्य विकल्पार्थत्वात् द्विगुणाचाम्लतपो वा कारयन्ति । दशचतुर्थकरणासामर्थे विंशतिमाचाम्लानि कारयन्तीति भावः ।।७४।। तेषामपि करणासामर्थ्य किं विधेयम् ? इत्याह - एगासण-पुरिमड्ढा निम्बिइगा दुगुणदुगुण पत्तेयं । पत्तेयासहदाणं कारिंति व संनिगासं तु ।।७५।। (व्य०सू० ४१८६, जि०भा० ३०५) व्याख्या-एकाशनकानि पुरिमा नि निर्विकृतिकानि 'दुगुणदुगुण पत्तेयं । ति । प्रत्येकं स्थानद्विगुणवृद्ध्या द्विगुणानि द्विगुणानि गीतार्थाः प्राक्तनप्राक्तनकरणासामर्थ्यवतः पुरुषान् कारयन्ति । अयमर्थःविंशत्याचाम्लकरणाशक्तौ चत्वारिंशदेकाशनानि, तदशक्तावशीतिं पूर्वार्द्धान्, तदशक्तावपि षष्टिशतं निर्विकृतिकानां वा कारयन्ति । ‘पत्तेयासहदाणं'। ति । एतत् पञ्चसु कल्येषु एकैक कल्यं प्रत्येकमनवस्थित्या कर्तुमसहस्याऽशक्तस्यालोचकस्य दानमुक्तम् । ‘कारिंति व संनिगासंतु' । त्ति। तुः पुनरर्थे वा शब्दोऽथवार्थे ।
SR No.032470
Book TitleSaddha Jiyakappo
Original Sutra AuthorN/A
AuthorNaybhadravijay Gani
PublisherParam Dharm
Publication Year2013
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy