SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ सड-जीयकप्पो अथ जिनप्रतिमाशातनाविषयं प्रायश्चित्तं निरूपयति - पूअंतपडिअबिंबे सासंचलकुंपिआइसंघट्टे । लहु-गुरुमासो थुक्काइ अविहिउज्जालणाईसु ।।६४।। व्याख्या-पूज्यमाने अज़माने, उपलक्षणत्वात् स्नप्यमाने, स्थानात् स्थानान्तरं वा नीयमाने बिम्बे जिनप्रतिमारूपे प्रमादेन हस्तात्पतिते सति । तथा श्वासाञ्चलकुम्पिकादिसङ्घट्टे । श्वास आस्यनासिकाविनिर्गतः पवनः, अञ्चलः परिधानादिवस्त्रप्रान्तः, कुम्पिका वासकर्पूरादिभाजनविशेषः, आदिशब्दात्कलशभृङ्गारधूपदहनपिङ्गानिकादीनां परिग्रहः । ततस्तेषां सङ्घट्टे बिम्बस्य सङ्के लघुमासः । तथा 'गुरुमासो'' त्ति । गुरुमासः प्रायश्चित्तं भवति । कस्मिन् ? वदनोत्थनिष्ट्यूतलवस्पर्श, आदिशब्दाच्चरणघट्टनादौ । पुनः कस्मिन् ? अविधिना जिनप्रतिमोद्योतने, आदिशब्दादधौतपोतिका पूजनादौ चेति गाथार्थः ।।६४।। अथ देवगुर्वोराशातनायां सामान्येन यत्प्रायश्चित्तं भवति, गुरु-विषयायां चाशातनायां विभागतोऽपि यत् प्रायश्चित्तं स्यात्तदाह सामण्णं दुसु वि गुरू तिविहं गुरुणो पयाइ-संघट्टे । लहु-गुरु-चउलहु पणगं गुरुसंथाराइ-संघट्टे ।।६५।। व्याख्या-सामान्येन जघन्यादिविवक्षामन्तरेण 'दुसु वि'' त्ति । द्वयोरपि देवगुर्वाशातनयोः कृतयोर्गुरुमासः प्रायश्चित्तं भवति । विभागतस्तु गुरोः पादादिना सट्टे जघन्याशातनायाम, आदिशब्दात् श्लेष्मनिष्ठीवनलवस्पर्शनादौ मध्यमाशातनायां, गुर्वादेशाकरणविपरीतकरणापकर्णनपरुषभाषणादावुत्कृष्टाशातनायां च क्रमेण त्रिविधं प्रायश्चित्तं भवति । किं तदित्याह – 'लहुगुरुचउलहु' । त्ति । लघुमासगुरुमासचतुर्लघूनि। तथाऽनाभोगादिना गुरोः संस्तारकस्यादिशब्दाद् गुरुपरिभोग्योपकरणाऽऽसनादेश्चरणादिना सङ्घट्टे 'पणगं" भिन्नमासः प्रायश्चित्तं भवतीति गाथार्थः ।।६५।। अथ स्थापनाचार्यविषयं प्रायश्चित्तमाह - ___ठवणगुरुमि अठविए ठविए अ कमा पयाइलग्गंमि । भिन्न-लहु पडणाइसु लहु-गुरु तह नासिए भिन्नं ।।६६।। व्याख्या-स्थापनागुरावस्थापितेऽकृतमन्त्रन्यासे, स्थापिते कृतमन्त्रन्यासे च पादादौ लग्ने सति क्रमेण भिन्नं लघुमासश्च। तथा तयोर्हस्तात् स्थापनाचार्यस्थानाद्वा प्रमादेन पातने आदिशब्दादवज्ञामोचनादौ क्रमेण
SR No.032470
Book TitleSaddha Jiyakappo
Original Sutra AuthorN/A
AuthorNaybhadravijay Gani
PublisherParam Dharm
Publication Year2013
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy