SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ...४३... सड-जीयकप्पो ‘णेगविहा इड्ढीओ पूयं परवाइणं च दट्टणं । जस्स न मुज्झइ दिट्ठी अमूढदिट्टि तयं बिंति' ४। (श्रावकधर्मविधि प्रकरणम् ५८-६०) उपबृंहा प्रशंसा । सा ज्ञानदर्शनतपःसंयमवैयावृत्त्याद्युद्यतानां समानधार्मिकाणां साध्वादीनां तत्तद्गुणप्रशंसनेन तदुत्साहवृद्धिहेतुः प्रशस्ता । यदुक्तम् - 'खमणे वेयावच्चे विणए सज्झायमाइसु अ जुत्तं । जो तं पसंसए एस होइ उववूहणाविणओ' ।। __ (श्रावकधर्मविधिः ६१) मिथ्यादृशां शाक्यचरकादीनां त्वप्रशस्ता ५ । स्थिरीकरणं ज्ञानदर्शनसंयमतपोवैयावृत्त्यादिषु सीदतां समानधार्मिकसाध्वादीनां यथा.पष्टम्भदानेन स्थैर्यहतुः प्रशस्तम् । यदुक्तम् - 'एएसु च्चिअ खमणाइएसु सीयंत चोयणा जा उ । बहुदोसे माणुस्से मा सीय थिरीकरणमेयं'' ।। (श्रावकधर्मविधिः ६२) 'खमणाइएसु' त्ति । आदिशब्दाद्वैयावृत्त्यविनयस्वाध्यायादिषु । असंयमविषये पुनस्तदप्रशस्तम् ६। वात्सल्यं नाम आचार्य-ग्लान-प्राघुर्णक-तपस्वि-सेहा-ऽसह-बाल-वृद्धादीनामाहारोपध्यादिना समाधिसम्पादनं प्रशस्तम् । उक्तं च - 'साहम्मिवच्छल्लं आहाराइसु होइ सबत्थ । आएस-गुरु-गिलाणे तवस्सि-बालाइसु विसेसो''।। __ (श्रावकधर्मविधिः ६३) गृहि-पार्श्वस्थाद्युपष्टम्भरूपं तु तदप्रशस्तम् ७। प्रभावना नाम प्रभाव्यते-विशेषतः प्रकाश्यते इति प्रभावना 'णिवेत्त्यासश्रत्थे । (सिद्धहेम० ५।३।१११) त्यादिना भावे अनप्रत्ययः । सा चार्थात् प्रवचनस्य सा प्रशस्ता । तत्र यद्यपि प्रवचनं शाश्वतत्वात्तीर्थकरभाषितत्वाद्वा सुरासुरनमस्कृतत्वात् स्वयमेव दीप्यते तथापि दर्शनशुद्धिमात्मनोऽभीप्सुर्यो येन गुणेनाधिकः स तेन तत्प्रवचनं प्रभावयति यथाभगवदार्यवज्रस्वामिप्रभृतिकः । उक्तं च'काम सभावसिद्धं तु पवयणं दिप्पए सयं चेव । तहवि य जो जेणहिओ सो तेण पभावए तं तु ।। (श्रावकधर्मविधिः ६४) ते प्रवचनप्रभावका अतिशय्यादयः । उक्तं च - 'अइसेसि-इडि-धम्मकहि-वाइ-आयरिअ-खवग-नेमित्ती । विज्जा रायगणसंमया य तित्थं पभाविति'' ।। (नि०भा० ३३, श्रावकधर्मविधिः ६७) अस्या अक्षरगमनिका-अतिशयी अवधिमनःपर्यायज्ञानयुक्तोऽतिशाय्यध्ययनो वा १ । ऋद्धिग्रहाद् राजाऽमात्यादिः ऋद्धिमान् दीक्षाग्राहकः आमर्पोषध्यादिऋद्धिप्राप्तो वा २। धर्मकथी आक्षेपणीविक्षेपणीनिर्वेदनीसवेदनीकथाभिर्यो धर्ममाख्याति ३। वादी वादलब्धिसम्पन्नः ४। आचार्यः स्वपरसिद्धान्तप्ररूपकः ५। क्षपकः तपस्वी ६। नैमित्तिकः अष्टाङ्गनिमित्तवेत्ता ७। विद्याग्रहणाद्विद्यासिद्धः
SR No.032470
Book TitleSaddha Jiyakappo
Original Sutra AuthorN/A
AuthorNaybhadravijay Gani
PublisherParam Dharm
Publication Year2013
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy