________________
सड्ड - जीयकप्पो सम्यगेवालोचयति सोऽपव्रीडकः ४, प्रकुर्वी 'कुर्व' । इत्यागमप्रसिद्धो धातुरस्ति यस्य विकुर्वणेति प्रयोगः । प्रकुर्वतीत्येवंशीलः प्रकुर्वी । किमुक्तं भवति-आलोचकेनालोचितेष्वपराधेषु यः सम्यक् प्रायश्चित्तप्रदानत आलोचकस्य विशुद्धिमुपजनयति स प्रकुर्वीति विशुद्धिं कारयितुं समर्थ इत्यर्थः ५, अपरिस्रावी न परिस्रवतीत्येवंशीलोऽपरिस्रावी-गोप्यमगोप्यं वाऽऽलोचकेनालोचितमतिचारजातं योऽन्यस्मै न कथयति सोऽपरिस्रावीति भावः ६, 'निज्जव'' त्ति । निर्यापो-निश्चितं यापयति प्रायश्चित्तविधिषु याप्यमालोचकं करोति-निर्वाहयतीति यावदिति निर्यापः । अच्प्रत्ययः । अपराधकारी यथोक्तप्रायश्चित्तं कर्तुमसमर्थो यथा निर्वहति तथा प्रायस्तदुचितप्रायश्चित्तप्रदानतः प्रायश्चित्तं कारयति स निर्यापक इति भावः ७, तथा अपायदर्शी इहलोकापायान् परलोकापायाँश्च दर्शयतीत्येवंशीलोऽपायदर्शी । किमुक्तं भवति–यः सम्यग् नालोचयति प्रतिकुञ्चितं वाऽऽलोचयति दत्तं वा प्रायश्चित्तं सम्यग् न करोति तस्य यदि त्वं सम्यग् नालोचयिष्यसि प्रतिकुञ्चितं वा करिष्यसि दत्तं वा प्रायश्चित्तं सम्यग् न पूरयिष्यसि ततस्ते भूयान् मासिकादिको दण्डो भविष्यतीत्येवमिहलोकापायान् तथा संसारे जन्ममरणादिकं प्रभूतमनुभवितव्यं दुर्लभबोधिता च तव भविष्यतीत्येवं परलोकापायाँश्च दर्शयति सोऽपायदर्शीति भावः ।८।
एवं प्रकाराऽष्टविधगुणयुक्त एव 'गुरू भणिओ'' त्ति गुरुर्भणितः-कथित आलोचनादानयोग्यः। आगम इति शेषः । यदाह चाऽऽगमः'अट्ठहिं ठाणेहिं संपन्ने अणगारे अरहति आलोयणं पडिच्छित्तए, तं जहा-आयारवं १, आधारवं २, ववहारवं ३, उव्वीलए ४, पकुव्वए ५, अपरिस्सावी ६, निज्जवए ७, अवायदंसी ८' इति (भगवतीसूत्रं, शतकः २५, उद्देशकः ७, सूत्रं ७९९) ।।९।। अथ यदा समग्रगुणालङ्कृतो गुरुर्न प्राप्यते तदा किं विधेयम् ? इत्याह -
सुगुरूण अलार्भमि आलोइज्ज सुसंजए ।
संविग्गपक्खिआणं तु गीअत्थाणं च अंतिए ।।१०।। व्याख्या- 'सल्लुद्धरणनिमित्त' (अस्य ग्रन्थस्य मूलगाथा ७) मित्यादिगाथोक्तप्रकारेण गवेषणायां कृतायामपि सुगुरूणां 'गीअत्थो कडजोगी'' (अस्य ग्रन्थस्य मूलगाथा ८) इत्यादिगाथोक्तासाधारणगुणयुक्तानामलाभे असम्प्राप्तावालोचनां दद्यात् । कः ? इत्याह- ‘सुसंजए। सुसंयत उपलक्षणत्वात् श्रमणोपासकोऽपि । केषामन्तिके ? इत्याह- 'संविग्नपाक्षिकाणां'' संविग्नाश्चारित्रिणस्तेषां पक्षं पक्षपातं साहाय्यं कुर्वन्तीति संविग्नपाक्षिकाः। 'सुद्धं सुसाहुधम्म, कहेइ निंदइ य निययमायारं । सुतस्सियाण पुरओ, होइ य सबोभरायणीओ।।।
(उपदेशमाला ५१५ ) 'वंदइ न य वंदावइ, कियकम्मं कुणइ कारवे नेय । अत्तट्ठा न वि दिक्खइ, देइ सुसाहूण बोहेउ' । ।।
(उपदेशमाला ५१६)