________________
...९२...
सड्ड - जीयकप्पो कुर्वीत श्रीवज्रस्वामिवत् ८। कुलगणकार्ययोः सङ्घकार्ये वा समुत्पन्नेषु वशीकरणोच्चाटनाभिचारादीनि राजादिकमुद्दिश्य प्रयुङ्क्ते चूर्णयोगादीन् वा करोति ९-११। आचार्यासहिष्णुग्लानबालवृद्धानां येन समाधिर्भवति तदपि तदुपकाराय यतनया करोति । तत्र राजयुवराजामात्यश्रेष्ठिपुरोहिता असहिष्णवः पुरुषा भण्यन्ते १२-१६। उदकाग्निचौरश्वापदादीनामागमनं दृष्ट्वा उदकपूर-प्रदीपन-तस्कर-व्याघ्रादीन् स्तम्भनविद्यया स्तभ्नीयात् विद्याया अभावे पलायेत १७-२०। भयं व्याघ्रादेः (धाट्यादेः) तस्मिन् सति पलायमानः पृथिव्यादीन् विराधयेत् २१। कान्तारे चान्नपानाद्यप्राप्तौ निषिद्धमपि स्वल्पदोषमाहारादिकं सशङ्कःसन् यतनया गृह्णीयात् २२। आपच्चतुर्द्धा-द्रव्यतः क्षेत्रतः कालतो भावतश्च । तत्र द्रव्यापत् प्रासुकान्नपानाद्यलाभः, क्षेत्रापत् दीर्घाध्वप्रतिपन्नत्वम्, कालापद् दुर्भिक्षादिः, भावापद् ग्लानत्वादिः, तस्यां किञ्चित्प्रतिषिद्धमपि यतनया समाचरेत् २३ । व्यसनं गीतताम्बूलाद्यभ्यासो, गीतव्यसनितया सामायिकपौषधस्थोऽपि गीतोच्चारं कुर्यात् ताम्बूलव्यसनितया वा निषिद्धताम्बूलोऽपि शुष्कपत्रादि मुखे प्रक्षिपेत् २४ । एष चतुर्विंशतिभेदःकल्प इति गाथार्थः ।। ११९-१२० ।। अथ पूर्वोक्तमेवार्थं दृढयन्नाह -
इअ दबाइ बहुगुणे गुरुसेवाए य बहुअरं दिज्जा ।
हीणयरे हीणयरं हीणयरं जाव झोसत्ति ।।१२१।। व्याख्या-इति अमुना प्रकारेण द्रव्यादौ द्रव्यक्षेत्रकालभावाख्ये प्रतिसेव्ये बहुगुणे बहुगुणिते प्रचुरे दोषवत्त्वेन समर्थे वा विपरीतलक्षणया वा बहुदोषे गुरुसेवायां गुरुतरायां प्रतिसेवायां कृतायां बहुतरं प्रायश्चित्तं दद्यात् । तथा हीनतरे अल्पदोषे द्रव्यादिके प्रतिसेविते हीनतरमल्पतरं प्रायश्चित्तं दद्यात् । ततोऽपि हीनतरे यावत्सर्वहीने अत्यल्पदोषे द्रव्यादावल्पीयस्यां सेवायां 'झोस'' त्ति । क्षपणा हासः कार्यः सर्वस्तोकं तपो देयमित्यर्थ इति गाथार्थः ।।१२१।। इदं पूर्वव्यावर्णितस्वरूपं प्रायश्चित्तं परिणामानुरूपेणैव दद्यादित्याह -
आलोअते सकेससोहिओ नाउ दिज्ज तम्मत्तं ।
हीणं वा अहिअं वा छम्मासं बहुअपावेवि ।।१२२ ।। व्याख्या- 'आलोअंते' ' इत्यत्र षष्ठ्यर्थे सप्तमी । ततश्चालोचयत आलोचनां गृह्णतः पुरुषस्य सङ्क्लेशविशुद्धितः सङ्क्लिष्टविशुद्धपरिणामाभ्यां ज्ञात्वा स्वरूपमवगम्य दद्यात् । किमित्याह-तन्मात्रं जीतोक्तमात्रं प्रायश्चित्तम्, हीनं वा जीतोक्तादल्पं वा, अधिकं वा जीतोक्ताद् बहुतरं वा । अयमर्थः- आलोचनाकालेऽप्येकमप्यपराधविशेषं यः सर्वथा न प्रकाशयति, कथयन्नप्यर्द्धकथितं वा करोति स सङ्क्लिष्टपरिणाम इति कृत्वा तस्य जीतोक्तादधिकमपि दद्यात् । यः पुनः सवेगमुपगतो निन्दा-गर्दादिभिर्विशुद्ध